________________
रसगङ्गाधरः ।
प्रसक्तेः । न च तत्र प्रतिभायाः प्रतिबन्धकमदृष्टान्तरं कल्प्यमिति वा - च्यम् । तादृशानेकस्थलगतादृष्टद्वयकल्पनापेक्षया क्लृप्तव्युत्पत्त्यभ्यासयोरेव प्रतिभाहेतुत्वकल्पने लाघवात् । अतः प्रागुक्तसरणिरेव ज्यायसी । तादृशादृष्टस्य तादृशव्युत्पत्त्यभ्यासयोश्च प्रतिभागतं वैलक्षण्यं कार्यतावच्छेदकम्, अतो न व्यभिचारः । प्रतिभात्वं च कवितायाः कारणतावच्छेदकं प्रतिभागतवैलक्षण्यमेव वा विलक्षणकाव्यं प्रतीति नात्रापि सः । न च सतोरपि व्युत्पत्त्यभ्यासयोर्यत्र न प्रतिभोत्पत्तिस्तत्रान्वयव्यभिचार इति वाच्यम् । तत्र तयोस्तादृशवैलक्षण्ये मानाभावेन कारणतावच्छेदकानवच्छिन्नत्वात् । पापविशेषस्य तत्र प्रतिबन्धकत्वकल्पनाद्वा न दोषः । प्रतिबन्धकाभावस्य च कारणता समुदितशक्त्यादित्रयहेतुतावादिनः शक्तिमात्रहेतुतावादिनश्चाविशिष्टा । प्रतिवादिना मन्त्रादिभिः कृते कतिपयदिवसव्यापिनि वाक्स्तम्भे विहितानेकप्रबन्धस्यापि कवेः काव्यानुदयस्य दर्शनात् ।
तच्चोत्तमोत्तमोत्तममध्यमाधमभेदाच्चतुर्धा ।
शब्दार्थौ यत्र गुणीभावितात्मानौ कमप्यर्थमभिव्यङ्कस्तदाद्यम् ॥
सा भवत्येवेति भावः । क्लृप्तेति । प्रतिबन्धका दृष्टादिनाशकतयेति भावः । एतेनोक्तद्वयव्यावृत्तिः । नन्वेवं प्रतिभाकार्यककार्यकारणभावे व्यभिचारोऽत आह-ताहशेति । केवलेत्यर्थः । तथा च विजातीयप्रतिभां प्रति तत्कारणं विजातीयप्रतिभां प्रति ताविति न दोष इति भावः । नन्वेवमपि प्रतिभाकारणककार्यकारणभावे व्यभिचार एवात आह - प्रतिभात्वं चेति । प्रागुक्तं सामान्यरूपमित्यर्थः । नन्वेवमप्येकप्रतिभातोऽपरमपि काव्यं स्यादत आह- प्रतिभाग तेति । अत्रापीत । द्वितीयकार्यकारणभावेऽपि न व्यभिचार इत्यर्थः । ननु वैलक्षण्यमदृष्टासहकृतत्वरूपमेवोक्तं तच्च तत्रास्त्येवेत्यत आह - पापेति । नन्वेवमिदमेव गौरवमत आह- प्रतीति । एवं च कार्यमात्रं प्रति प्रतिबन्धकाभावस्य कारणतायाः क्लृप्तत्वेन काव्यं प्रति यथोभाभ्यां स्वीक्रियते तथात्रा - पीति न मेऽधिककल्पनजगौरवमिति भावः । समुदित हेतुवादिमते तत्स्वीकार आवश्यक इत्याह- प्रतिवादीति । विहितेति । कृतानेककाव्यस्यापीत्यर्थः ॥
तच्चेति । काव्यं चेत्यर्थः । शब्दार्थाविति । गुणीभावितात्मानौ शब्दार्थौ यत्र कमप्यर्थमभिव्यङ्क इत्यन्वयः । भूमिं निदानम् । व्यङ्ग्यपदस्योभयत्र संबन्धः । एवमग्रे -