________________
२२०
काव्यमाला। स्मृतिरलंकार्यभूता । किं तु जानक्यालम्बनो निशासमयोद्दीपितः संतापादिनानुभावित उन्मादेन संचारिणा परिपोषितो विप्रलम्भः प्रधानत्वेनालंकार्यः । तस्य च स्मृतिरुत्कर्षहेतुत्वादलंकार एव । अतो नितरां तघ्यावृत्त्यर्थमव्यङ्ग्यत्वविशेषणदानमनुचितम् । नहि व्यङ्गयत्वालंकारत्वयोर्विरोध इति वक्तुं शक्यम् । नित्यव्यङ्गयानां रसभावादीनामपि परागतायामलंकारत्वाभ्युपगमात् । प्रधानव्यङ्गयव्यावृत्यर्थं पुनरुपस्कारकत्वं सर्वेष्वलंकारलक्षणेषु देयमिति प्रागेवावेदितम् । यदप्युक्तम् 'अत्युच्चाः परितः स्फुरन्ति गिरयः' इत्यत्र स्मृतेः संचारिभावस्य भूभृद्विषयरतिभावाङ्गत्वात्प्रेयोलंकार इति, तन्न । भावस्य हि भावाद्यङ्गतायां प्रेयोलंकारत्वम् । नात्र स्मृतिर्भावः । तस्याः सरतिना वाचकेनाभिधानात् । नहि वाच्यस्य व्यभिचारिणो भावत्वं वक्तुं युक्तम् । 'व्यभिचार्यञ्जितो भावः' इति सिद्धान्तविरोधात् । तथा चोक्तं सर्वखकृता- "प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः । तत्रापि विभावाद्यागूरितत्वे यथा 'अहो कोपेऽपि कान्तं मुखम्' इति । न तु खखशब्दनिवेद्यत्वे । यथा'अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः।।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ॥'. इत्यादाविति ।" ननु भावाद्यङ्गीभूतभावत्वं न प्रेयोलंकारलक्षणम् । अपि तु भावाद्यङ्गीभूतसंचारित्वमात्रम् । तथा च प्रकृते स्मरणस्य खशब्दनिवेद्यत्वेन भावत्वविरहेऽपि संचारित्वानपायात्प्रेयोलंकारत्वं विरुद्ध
लम्भस्यैव तत्त्वाचेति चिन्यम् । विप्रलम्भः श्रीरामचन्द्रनिष्ठः । नितरामित्यस्यानौचियेऽन्वयः । तदाशयं खण्डयति-नहीति । नित्येति । सर्वथेत्यर्थः । कदाप्यवाच्यलक्ष्येति यावत् । नन्वेवं प्राधान्येऽप्यलंकारखापत्तिरत आह-प्रधानेति । सर्वेषु न खत्रैव । तथा चालंकारसामान्यलक्षणप्राप्तवात्तस्य नातिप्रसङ्ग इति भावः । सिद्धान्तेति । मम्मटभट्टादीनामिति शेषः । तद्न्थमाह-प्रेयोलमित्यादि । इतीत्यन्तेन । तत्रापि तदुक्तस्यापि न स्मृतिष्वपि । आगूरितले आविष्कृतले । अत्रेति । पुष्पकेण लक्षातोऽयोध्यां गच्छतः श्रीरामस्य सीतां प्रत्युक्तिरियं रघुवंशे । अनुगोदं गोदासमीपे । वानीरेति । तृणधान्यतृणेत्यर्थः । सुप्तं खापः । इष्टापत्तिं परिहरति-एवं चेति ।