________________
रसगङ्गाधरः ।
द्वितीयो यथा
'पूर्णमसुरै रसातलममरैः खर्गे वसुंधरा च नरैः । रघुवंशवीरतुलना तथापि खलु जगति निरवकाशैव ॥' एवं पूर्णतया लुप्ततया चास्यापि यथासंभवं भेदा उन्नेयाः ॥ इति रसगङ्गाधरेऽसमालंकारप्रकरणम् ।
सामान्येन निरूपितस्यार्थस्य सुखप्रतिपत्तये तदेकदेशं निरूप्य तयोरवयवावयविभाव उच्यमान उदाहरणम् ॥
अर्थान्तरन्यासवारणायोच्यमान इति वचनम् । वा इव यथा - निदर्शनदृष्टान्तादिशब्दैः काव्येषु स्फुटम् । न च इवयथाशब्दयोः सादृश्यवचनयोरवयवावयवभावे विशेषसामान्यात्मके नास्ति वृत्तिरिति वाच्यम् । लक्षणायाः साम्राज्यात् । अन्यथा ह्युत्प्रेक्षाबोधकतापि दुर्घटा स्यात् ।
उदाहरणम्
'अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति । निखिलरसायनराजो गन्धेनोग्रेण लशुन इव ॥'
२१३
न चात्र पदार्थलशुनयोरुपमा शक्या वक्तुम् । तयोः सामान्य विशेषभावेन सादृश्यस्यानुल्लासात् । तथात्वे तु इवादिशब्दानामिव सदृशादि - शब्दानामप्यलंकारेऽस्मिन्प्रयोगः स्यात् ।
यथा वा
'अतिमात्रबलेषु चापलं विदधानः कमतिर्विनश्यति । त्रिपुरद्विषि वीरतां वहन्नवलिप्तः कुसुमायुधो यथा ॥'
इति ध्वनिरयम् । नालंकारः । निरवेति । निष्प्रसरेत्यर्थः । निराधारेति यावत् । एवं I उक्तभेदवत् । अस्याप्यसमालंकारस्यापि ॥ इति रसगङ्गाधर मर्म प्रकाशेऽसमालंकारप्रकरणम् ॥
सुखेति । द्रुततरं बुद्ध्यारूढलाय । तयोः सामान्यैकदेशयोः । अवयवावयविभावस्वरूपमाह - विशेषेति । अन्यथा लक्षणानङ्गीकारे । अनुल्लासादिति । मिथो भेदाभावेन स्फुटमप्रतीतेरित्यर्थः । तथात्वे तु सादृश्योला से तु । अस्योपपत्तिरप्रेऽत्रैव स्फुटीभवि - ष्यति । इवयुतोदाहरणमुक्त्वा यथाघटितमुदाहरणमाह-यथा वेति । गुणेति । कुत्सित