________________
२१२
काव्यमाला।
न हीयते एवमनन्वये प्रधानव्यङ्ग्यसत्त्वेऽपीति न किंचिद्विरुद्धम् । अनन्वयशरीरस्य खसादृश्यमात्रस्य वाच्यत्वेन वाच्यालंकारव्यपदेशोऽपि सुस्थ एव । दीपकाद्यलंकारकाव्ये गुणीभूतस्य व्यङ्ग्यस्य सत्त्वादस्तु नाम' गुणीभूतव्यङ्ग्यत्वम् । ध्वनित्वं पुनर्न क्वाप्यलंकृतिकाव्ये दृष्टमिति चेत्, पर्यायोक्तसादृश्यमूलाप्रस्तुतप्रशंसादिकाव्ये ध्वनित्वस्य स्फुटत्वात् । प्राञ्चस्तु नेदमलंकारान्तरमित्यप्याहुः । अयं चासमालंकारो व्यज्यमानो यथा'मयि त्वदुपमाविधौ वसुमतीश वाचंयमे
न वर्णयति मामयं कविरिति क्रुधं मा कृथाः । चराचरमिदं जगजनयतो विधेर्मानसे ___ पदं न हि दधेतरां तव खलु द्वितीयो नरः ॥' अत्र य एतावन्तं समयं विधातुर्मानसं नाधिरूढः सोऽग्रेऽपि मानाभावान्नारोहेत , अतः सर्वथैव नास्तीति गम्यते । एवं च व्यज्यमानोऽप्यसमोऽत्र प्रधानीभूतराजस्तुत्युत्कर्षकतयालंकार एव । मुख्यतया ध्वन्यमानोऽयं यथा
'सदसद्विवेकरसिकैरालोक्य समस्तलोकमथ कविभिः । गणिता गगनलतादेर्गणनायां तन्वि तव सदृशी ॥' अयं क्वचिदुपमानस्य निषेधात्वचिच्च साक्षादुपमाया एव । आधस्तूपदर्शितः।
सत्त्वेऽपीति । अलंकारखं न हीयते इत्यस्यानुषङ्गः । एवमलंकारत्वव्यपदेशे साधिते वाच्यालंकारव्यपदेशं तस्य साधयति-अनन्वयेति । शङ्कते-दीपकाद्यलंकारेति । बहुव्रीहिः । अलंकृतीति । तद्युक्तकाव्य इत्यर्थः । तथा चैवमित्याधुक्तिरयुक्तेति भावः । अप्रस्तुतप्रशंसाया अनेकविधवादाह-सादृश्येति । अलंकारान्तरमिति । अत्रोपपत्तिर्व्यतिरेकालंकारप्रकरणे स्फुटीभविष्यति । त्वदिति । बदुपमावर्णनविषये । वाचंयमे मौनव्रतवति । पदं चरणम् । द्वितीयः सहायः । सदृश इति यावत् । ननु निषेधस्य वाच्यतेन कथं तस्य व्यङ्ग्यत्वम् , किं च लिटा भूतनिषेधप्रतिपादनेनात्यन्तिकनिषेधाप्रतीत्या कथमयमत आह-अत्रेति । पद्ये इत्यर्थः । एवं च पदधारणनिषेधस्य शाब्दखेऽप्युपमाननिषेधस्य व्यङ्ग्यखमेवेति भावः । प्राग्वदाह-एवमिति । अथ अनन्तरम् । हे तन्वि, तव तुल्या असत्पदार्थगणनायां गणिता । एवं च बत्तुल्या असतीति प्राधान्येन ध्वन्यते ।