________________
रसगङ्गाधरः ।
२११
यथा वा
'भुवन त्रितयेऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः । न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलापदम् ॥' राजस्तुत्युत्कर्षकत्वादत्रासमालंकारः । आत्यन्तिकः काचित्कश्च सहशनिषेधोऽसमोपमानलुप्तयोर्विषयः । सर्वथैवोपमाननिषेधेन सादृश्यस्याप्रतिष्ठानानोपमागन्धोऽपि ।
यत्तु —
“ढुण्डुलन्तो मरीहसि कण्टककलिआई के अइवणाई | मालइकुसुमसरिच्छं भमर भमन्तो न पावहिसि ॥' इति । नेयमुपमानलुप्तोपमा, तस्याः संभवदुपमानानुपादानविषयत्वात् । अपि त्वसमालंकारः" इति रत्नाकरेणोक्तम्, तदसत् । मालतीकुसुमसदृशं भ्रमर भ्रमन्नपि न प्राप्स्यसीत्युक्त्या वर्ततां नाम तत्सदृशं क्वापि, त्वया तु दुष्प्रापमेवेति प्रत्ययादात्यन्तिकोपमाननिषेधाभावादुपमानलुप्तोपमैवेयं भवितुमर्हति नासमालंकारः । अन्यथा मालतीकुसुमसदृशं नास्तीत्येव ब्रूयात्, न तु प्राप्स्यसीति । अथासमालंकारध्वननेनैव चमत्कारोपपत्तेरनन्वयस्य पृथगलंकारता कथमिति चेत् सत्यम् । दीपकादेरप्युपमाभिव्यक्त्यैव चमत्कारोपपत्तौ कथं नाम पृथगलंकारत्वमिति तुल्यम् । न च दीपकादावुपमाया व्यङ्ग्यत्वेऽपि गुणाभावात्प्रकृते तु खसादृश्यस्य स्वस्मि - नतितमां तिरस्कारेणासमालंकारस्यैव मुख्यतया ध्वननाद्वैषम्यमिति वाच्यम् । यथा हि दीपकसमासोक्त्यादौ गुणीभूतव्यङ्ग्यसत्त्वेऽप्यलंकारत्वं
>
शेषः । नृपेति संवोधनम् । पदं स्थानं चिह्नं वस्तु वा । आद्ययोर्भेद संबन्धः । अन्त्येSभेदः । कालत्रय सत्त्वमुक्तोदाहरणाद्विशेषः । ननूदाहरणद्वयेऽपि निषेधस्य प्राधान्यात्क थमलंकारत्वमत आह— राजेति । अत्र उदाहरणद्वये । ननूप मानलुप्तयैव गतार्थोऽयमत आह - आत्यन्तिक इति । यथासंख्यमन्वयः । नन्वात्यन्तिकनिषेधेऽपि कुतो नोपमानलुप्तात आह— सर्वथैवेति । निषेधाभावादिति । संभवदुपमानत्वाचेत्यपि बोध्यम् । अन्यथा तस्येष्टत्वे । एवं वाच्यतायां निषेधस्यासमालंकारे सिद्धेऽनन्वये निषेधस्य व्यङ्ग्य वासमालंकारस्य ध्वननाङ्गीकारे चमत्कारस्तत एवास्तु नानन्वयकृत इत्यनेनैत्रगतार्थः स इत्याशयेन शङ्कते - अथेति । प्रतिबन्द्या समाधत्ते - सत्यमिति । अत एव पूर्वं दृष्टान्तोक्तिः । दीपकादेरित्यस्य पृथगलंकारत्वमित्यत्रान्वयः । हि यतः ।