________________
१०
काव्यमाला |
यथा वा
"नगेभ्यो यान्तीनां कथय तटिनीनां कतमया पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे । कया वा श्रीभर्तुः पदकमलमक्षालि सलिलैस्तुलालेशो यस्यां तव जननि दीयेत कविभिः |' अत्र कया वा त्वदितरया श्रीभर्तुः पदं सलिलैरक्षालि यस्यामितरस्यां कविभिस्तव तुलालेशोऽपि दीयेतेत्यर्थेन त्वयि पुनः सलिलक्षालितश्रीरमणचरणायां तव तुला दीयेतैवेत्यर्थोऽनन्वयात्मा श्रीगङ्गागतनिरुपमत्वपर्यबसायी इतरपदमहिना व्यज्यते ॥
इति रसगङ्गाधरेऽनन्वय प्रकरणम् ।
सर्वथैवोपमानिषेधोऽसमाख्योऽलंकारः ॥
अयं चानन्वये व्यङ्ग्योऽपि तच्चमत्कारानुगुणतया रूपकदीपकादावुपमेव न पृथगलंकारव्यपदेशं भजते । वाच्यतायां तु खातन्त्र्येण चमत्कारितया पृथग्व्यपदेशभाक् ।
यथा
'भूमीनाथ शहाबदीन भवतस्तुल्यो गुणानां गणैतद्भूतभवप्रपञ्च विषये नास्तीति किं ब्रूमहे ।
धाता नूतनकारणैर्यदि पुनः सृष्टिं नवां भावयेन्न स्यादेव तथापि तावकतुलालेशं दधानो नरः ||'
1
भ्रमरेण न पेदे । न गृहीतमित्यर्थः । नगेभ्यः पर्वतेभ्यः । कपर्दो जटाजूटः । अत्र पूर्वार्धे तादृशव्यञ्जकाभावादाह – अत्र कया वेति । पूर्वोदाहरणे भेदेनेत्युक्त्या तादृशव्यङ्ग्यस्य स्फुटं प्रतीतिः । अत्र त्वस्फुटा । अत एवोदाहरणान्तरदानं ध्वनयन्नाह — इतरपद्महिम्नेति ॥ इति रसगङ्गाधर मर्मप्रकाशेऽनन्वय प्रकरणम् ॥
उपमा निषेध इति । साक्षात्परम्परया वेत्यादिः । तच्चमत्कारेति । तन्निषेधकृतचमत्कारपरिपोषकतयेत्यर्थः । पृथगिति । पृथगलंकारेत्यर्थः । शहाबदीनेति राज्ञो नाम । एतद्भूतेति । अनेन कारणान्तरस्याप्यादौ निर्माणेन तेनाग्रिमसृष्टिकरणयोग्यता सूचिता । अन्यथा तेषामेवासत्त्वादसंगतिः स्पष्टैव । तदाह - नूतनेति । प्रसिद्धपञ्चभूतातिरिक्तस्वनिर्मित कारणैरित्यर्थः । अत एव सृष्टेरपि न तत्वम् । न स्यादेवेत्यर्थ इतीति