________________
रसगङ्गाधरः।
२०९ त्वदागमनप्रभवप्रीतेः सैव सदृशी न वितरप्रभवा इति व्यज्यते" इत्यप्पयदीक्षितैरभिहितम् , तदपि न । अमुष्यास्त्वदागमनप्रभवायाः प्रीतेर्वारान्तरत्वदागमनप्रभवा प्रीतिः सदृशीति प्रत्ययस्य सर्वजनसिद्धतया श्रीकृष्णागमनजन्यप्रीतिसामान्यावयवयोर्द्वयोः प्रीतिव्यक्त्योः सादृश्यस्याबाधितत्वाद्योगार्थाभावेनानन्वय एव नायं भवितुमर्हति । 'स्वस्मिन्सादृश्यस्यान्वयाभावादनन्वयः' इत्युपमाप्रकरणे खयमेवाभिधानात् । उपमेयस्य प्रीतिव्यक्तिविशेषस्य सदृशान्तरव्यवच्छेदे बाधात्तादृशप्रीतिसामान्यस्य वावयविनो निरुपमतया प्रतीयमानस्यानुपमानस्यानुपमेयत्वात्पूर्वोदाहरणतुल्यमेवैतत् । कचिदवयवयोरुपमाप्यवयविगतनिरुपमत्वव्यञ्जिकेति स्थिते सामान्यस्य श्रीकृष्णागमनजन्यप्रीतेः सैव सदृशीति मध्ये खसादृश्यप्रत्ययकल्पनं पुनर्न सहृदयहृदयमारोढुमीष्टे । रत्नाकरोक्तस्यैवानन्वयप्रकारस्थात्र व्यङ्गयतेत्यपि न युक्तम् । तस्य प्रागेव दूषितत्वात् । प्रकृते वाच्यत्वात्स्वयमनन्वयप्रकरणे तस्य प्रतिपादनविरहाच्च । । इदं पुनरनन्वयध्वन्युदाहरणम्
'पृष्टाः खलु परपुष्टाः परितो दृष्टाश्च विटपिनः सर्वे ।
भेदेन भुवि न पेदे साधर्म्य ते रसाल मधुपेन ॥ अत्र भेदेनेत्युक्त्याभेदे सादृश्यमनन्वयात्मकं तु पेदे इति ध्वन्यते ।
प्रभवैव । अमुष्या इति । यत इत्यादिः । व्यक्त्योदितभेदेनेति शेषः । योगार्थेति । अनन्वयपदयोगार्थेत्यर्थः । ननु रूढमेवानन्वयपदमभिमतमत आह-स्वस्मिन्निति। व्यवच्छेदे बाधादिति । तस्य व्यवच्छेदकरणेऽसामर्थ्यादित्यर्थः । कालान्तरस्थप्रीतिव्यक्तिविशेषस्य सदृशस्य सत्त्वादिति भावः । तादृशेति । श्रीकृष्णागमनजन्येत्यर्थः । पूर्वोदाहरणेति । अनुहरतीत्युदाहरणेत्यर्थः । नन्ववयविनो निरुपमलप्रतीतिवन्मध्ये सादृश्यप्रतीतिरप्यस्तु अत आह-क्वचिदिति । पूर्वोदाहरण इत्यर्थः । सैव श्रीकृष्णागमनजन्यप्रीतिरेव । मध्ये वाच्यव्यङ्ग्यार्थयोर्मध्ये । ननूक्तरीत्या न व्यङ्ग्यवं किंतु रत्नाकरोक्तरीत्येति नोक्तदोषोऽत आह-रत्नेति । तस्य प्रकारस्य प्रकृतेऽवाच्यत्वात् । अवा. च्यले हेतुः प्रागेव दूषितवादिति । ननु वया दूषितोऽपि न मया दूषितस्तत्राहस्वयमिति । 'अन्यथालंकारध्वने विषयापहारः स्यात्' इति रत्नाकरोक्ति खण्डयितुमाह-इदं पुनरिति । परपुष्टाः कोकिलाः । हे आम्रवृक्ष, तव भुवि भेदेन सादृश्यं