________________
द्वितीयो यथा
-
रसगङ्गाधरः ।
'एतावति प्रपञ्चे सुन्दरमहिलासहस्रभरितेऽपि । अनुहरति सुभग तस्या वामार्धं दक्षिणार्धस्य || '
२०७.
तृतीयो यथा
'गन्धेन सिन्धुरधुरंधरवक्रमैत्रीमैरावणप्रभृतयोऽपि न शिक्षितास्ते । तत्त्वं कथं त्रिनयनाचलरत्नभित्तिस्वीयप्रतिच्छविषु यूथपतित्वमेषि ॥' एषूपमानान्तरविरह स्त्रिष्वपि भेदेषु गम्यते । इत्यनन्वयस्त्रिविधः । " इति रत्नाकरेणोक्तम् । तन्न । उपमानान्तरविरहप्रतीतिमात्रा देवानन्वयत्वे 'स्तनाभोगे पतन्भाति --' इत्यत्रोपदर्शितायाः कल्पितोपमाया अपि तथात्वापत्तेः । यद्यर्थातिशयोक्तावतिप्रसक्तेश्च । तादृशप्रतीतिफलकै कोपमानोपमेयकसादृश्यस्य तत्त्वे पुनः कथं नाम वामार्घदक्षिणार्धयोर्भिन्नयोः सादृश्ये तद्भेदत्वोपन्यासः । न च स तदेकदेशस्तत्प्रतिबिम्बश्वेत्येतदन्यतमप्रतियोगिकसादृश्यमनन्वयः इति क्वातिव्याप्तिरव्याप्तिर्वेति वाच्यम् । नास्त्यन्वयो ऽस्येति योगार्थविरहेण तदेकदेश सादृश्यस्यानन्वयपदार्थत्वा
Th
तस्य । तत्त्वेति । उपमानत्वेत्यर्थः । महिला स्त्री । दक्षिणार्धस्येति कर्मणः शेषवविवक्षायां षष्ठी । अत्रोपमेयं समुदिता नायिका । गन्धेनेति । हे सिन्धुरधुरंधरवऋ गजश्रेष्ठमुख गणपते, ऐरावणप्रभृतयोऽप्यैरावतादयोऽपि ते त्वया गन्धेन सुगन्धेन मैत्रीं न शिक्षिताः । यद्वा गन्धेन संबन्धेन लेशेन गर्वेण वा । अपिर्गन्धपदोत्तरं मैत्रीपदोत्तरं वा योज्यः । तत्तस्मात्कारणात्त्वं कैलासाचलरत्नखचितभित्त्याधारक स्वप्रतिबिम्बेषु यूथपतित्वं दिग्गजत्वं कथमेषीत्यर्थः । उपमानान्तर विरह इति । तत्राद्ये स्फुट एव । द्वितीये तदवयवस्य तदवयवान्तरोपमया तस्यां निरुपमत्वं सिद्ध्यति । अन्यथा तत्सदृश - पदार्थावयवेनैवैतदवयवस्योपमां दद्यात् । तृतीयेऽपि प्रतिबिम्बस्योपमानत्वकल्पन यान्यस्योपमानस्याभावो गम्यते । तथात्वेति । अनन्वयत्वेत्यर्थः । इष्टापत्तावाह – यद्यर्थेति । तादृशेति । उपमानान्तरविरहेत्यर्थः । सादृश्यविशेषणमुभयत्र । तत्त्वे अनन्वयले । पुनःशब्दस्तुशब्दार्थे । भिन्नयोरिति । तथा च द्वितीय विशेषणाभाव इति भावः । तद्भेदत्वेति । अनन्वयविशेषत्वेत्यर्थः । सेति । उपमेयेत्यर्थः । इदानीमाद्यविशेषणं न देयम् । तद्विरहस्य नान्तरीयकत्वादिति भावः । विरहेणेति । अबाधितत्वादिति भावः ।