________________
काव्यमाला।
एवम्'लकापुरादतितरां कुपितः फणीव
निर्गत्य जातु पृतनापतिभिः परीतः । क्रुद्धं रणे सपदि दाशरथिं दशास्यः
संरब्धदाशरथिदर्शमहो ददर्श ॥ एवं कर्तृणमुलादावप्यूह्यम् ।
'अम्बरत्यम्बरं यद्वत्समुद्रोऽपि समुद्रति ।
विक्रमार्कमहीपाल तथा त्वं विक्रमार्कसि ॥' अत्र वाक्यार्थावयवेष्वनन्वयेषु धर्मवाचकयोलोपः । मुखवाक्यार्थस्त्वनन्वयफलेन निरुपमत्वेन समानधर्मेण प्रयोजितो मालोपमैव । एषा च ज्ञानसौकर्यायात्रैव निरूपिता ।
'एतावति प्रपञ्चेऽस्मिन्सदेवासुरमानुषे ।
केनोपमीयतां तज्ज्ञै रामो रामपराक्रमः ॥' अत्र वाचकधर्मोपमानानां लोपः । अत्र चोपमानलुप्तादयोऽन्ये भेदा असंभवादहृद्यत्वाच्च नोदाहृताः।
यत्तु-"तेन तदेकदेशेनावसितभेदेन वोपमानतया कल्पितेन साहश्यमनन्वयः । उपमेयेनैवोपमानतया कल्पितेनोपमेयस्यामुखावभासमानसाधापादनमेकोऽनन्वयः । उपमेयैकदेशस्य तथैवोपमानताकल्पनमपरः । उपमेयस्यैव प्रतिबिम्बत्वादिनाभेदेनावसितस्य तत्त्वकल्पनं तृतीयः । __ आयो यथा—'युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापः' इत्यादि ।
हरति एवं लङ्केति । ईदृशो दशास्यो रणे क्रुद्धं सपदि दाशरथिं संरब्धदाशरथितुल्यं ददर्शेत्यर्थः । संरब्धदाशरथिरिव दृश्यते इति कर्मणि णमुल । धर्मवाचकलुप्तमुदाहरतिअम्बरेति। अत्र सर्वत्राचारे क्विप् । अम्बरमाकाशम् । ननु कोऽसौ वाक्यार्थों यदवयवास्त्रयोऽनन्वया अत आह-मुख इति । मुख्य इत्यर्थः । 'मुख्य' इति पाठस्तूचितः । ननु मालोपमा नैवास्ति पूर्वमनुक्तवादत आह-एषा चेति । मालोपमा चेत्यर्थः । अत्रैव अनन्वयप्रकरण एव । वाचकधर्मोपमानलुप्तमुदाहरति-एतेति । तज्ज्ञै रामस्वरूपज्ञैः। न्यूनतां निराचष्टे-अत्र चेति । संभवेऽप्याह-अहृद्येति । तेनेत्यस्यार्थमाहउपेति । अमुखेति । अमुख्येत्यर्थः। तदेकदेशेनेत्यस्यार्थमाह-उपेति । तथैव उपमेयवत् । अवसितभेदेनेत्यस्यार्थमाह-उपेति । प्रतिबिम्बोऽत्र लौकिकः । अवसितस्य निश्चि