________________
रसगङ्गाधरः। . १९१ तत्र वादीनां द्योतकत्वमेव न वाचकत्वम् । निपातत्वादुपसर्गवत् । द्योतकत्वं च खसमभिव्याहृतपदान्तरेण शक्त्या लक्षणया वा तादृशार्थबोधने तात्पर्यग्राहकत्वेनोपयोगित्वमिति वैयाकरणाः । उपसर्गाणां द्योतकत्वमावश्यकम् । अन्यथा उपास्यते गुरुः, अनुभूयते सुखम् , इत्यादौ गुर्वादेतेनाभिधानं न स्यात् । धात्वर्थकर्मताविरहात् । इवादीनां तु वाचकत्वम् । बाधकाभावात् । प्रागुक्तहेतुस्त्वप्रयोजकत्वान्न साधकः । अन्यथा अव्ययत्वादिति हेतुना अव्ययमात्रस्यैव द्योतकतापत्तिरिति नैयायिकाः । __ अथास्याश्चमत्कारस्यापकर्षकं यावत्तत्सर्वमपि दोषः कविसमयप्रसिद्धिराहित्यम् । उपमानोपमेययोर्जात्या प्रमाणेन लिङ्गसंख्याभ्यां चाननुरूप्यम् । बिम्बप्रतिबिम्बभावे धर्माणामुपमानोपमेयगतानां न्यूनाधिक्यम् । अनुगामितायामनुपपद्यमानकालपुरुषविध्याद्यर्थकत्वम् । एवमादि । क्रमेण योग
'प्रफुल्लकारनिभा मुखश्री रद पडः कुङ्कुमरम्यरागः । नितान्तशुद्धा तव तन्वि वा .. विभाति कर्पूरपरम्परेव ॥'
'मुनिः श्ववदयं भाति सततं पर्यटन्महीम् । विनिवृत्तक्रियाजातः श्वापि लोके शुकायते ॥' 'सरसि प्लवदाभाति जम्बीरं सुपचेलिमम् । आदिकारणतोयौघ इव ब्रह्माण्डमण्डलम् ॥'
न द्योतकत्वं साध्यम् । अनर्थकनिपातेषु निपातत्ववत्सु द्योतकवाभावेन व्यभिचारात् । अत एव द्योत्यं साध्यमाह-न वाचकत्वमिति । तथा च वाचकवाभावे साध्ये नोक्तव्यभिचार इति भावः । नानार्थभिन्नस्थले शक्त्या बोधने तात्पर्यग्राहकानपेक्षणादाहलक्षणयेति । लेन लकारेण । प्रयोजकत्वादिति । 'साक्षाक्रियते दयिता' इत्यादौ लेन दयितादेरभिधानसिद्धये निपातत्वे द्योतकतावच्छेदकता कल्प्यत इति चिन्त्यमेतत् । द्योतकतापत्तिरिति । न चेष्टापत्तिः । खरादीनां स्वातन्त्र्येण प्रयोगानापत्तेरिति भावः । अस्याः प्रकृतोपमायाः। समयः संकेतः । अननुरूप्यमिति । नसमासोत्तरं भावप्रत्ययः । कालो भूतादिः । पुरुषः प्रथमादिः । प्रफुल्लेति । अत्र कहारमुखयोः केसरौष्ठयोः कर्पूरवाण्योश्च तत्त्वं तत्संकेताप्रसिद्धम् । कलारं पुष्पविशेषः । रदानां दन्तानां छदोऽपवारकः पल्लवः । ओष्ठ इति यावत् । विनीति । विशेषेण निवृत्तक्रियासमूहः । अत्र श्वमुन्योः शुकशुनोश्च जात्याननुरूप्यम् । प्लवच्चञ्चलम् ।