________________
काव्यमाला।
बिम्बप्रतिबिम्बभावापन्ने तु
'कोमलातपशोणाभ्रसंध्याकालसहोदरः।
कुङ्कुमालेपनो याति काषायवसनो यतिः ॥' इत्यादौ कुङ्कुमालेपनादिविशिष्टो यतिः कोमलातपादिविशिष्टसंध्याकालसदृशाभिन्न इति शक्त्या बोधे पश्चात्सादृश्यप्रयोजकधर्माकाङ्क्षायां श्रुतानां कोमलातपादीनामुपमानोपमेयविशेषणानां सादृश्यमूले तादात्म्याध्यवसाने साधारणत्वनिष्पत्तिः । कुङ्कुमालेपकषायवसनाभ्यामयं यतिरित्यत्र कुङ्कुमालेपकषायवसनयोरसाधारणयोरपि साधारणत्वज्ञानजननद्वारा कल्पनीयसादृश्यनिष्पत्तिप्रयोजकत्वात्प्रयोज्यत्वेन सादृश्येऽन्वयः । एकदेशान्वयः पुनरेषु पक्षेष्वगतिकतयाश्रीयत इत्युक्तमेव । सादृश्यस्य समानधर्मरूपत्वे तु अरविन्दसुन्दरं वदनमित्यत्र लक्षणयारविन्दवृत्तिसमानधर्मः प्रतीयते । तस्य चाभेदेन सुन्दरपदार्थैकदेशेन सुन्दरत्वेनान्वयः । अरविन्दमिव सुन्दरमित्यत्रारविन्दपदार्थ आधेयतया संसर्गेण इवा समानधर्मेणान्वेति । शेषं प्राग्वत् । सौन्दर्येणारविन्देन समामत्यत्र सौन्दर्योत्तरतृतीयया धान्येन धनीत्यत्रेव अभेदार्थिकया अन्यया च निरू- . पितत्वार्थिकया सौन्दर्याभिन्नमरविन्दनिरूपितं यत्सादृश्यं तद्वदभिन्नमिति धीः । क्यङर्थाचारो धर्ममात्रम् । तस्य चोपमानपदेन लक्षणयोपस्थितं तन्निरूपितसादृश्यं प्रयोजकतासंसर्गेणाभेदेन वा विशेषणम् । विशेष्यं चाश्रयतयोपमेयम् । क्यजर्थाचारश्चानुरूपक्रियादिरिति दिक् ।
11.
अरविन्देत्यर्थः । सादृश्यस्य वेति । प्रतीतिरित्यस्यानुषङ्गः । पन्ने त्विति । तदापन्नधर्मके खित्यर्थः । सहोदरशब्दार्थमाह-सदृशेति । तादात्म्येति । अभेदेत्यर्थः । लक्ष्यान्तरमाह-कुङ्कमालेपेति । साधारणत्वेति । सादृश्यभूलाभेदाध्यवसानेनेत्यादिः । कल्पनीयेति । यतिरित्यस्य यतिरिवेत्यर्थः । अन्यत्र अन्यशब्दयोगादिति भावः । लक्षणयेत्यस्यारविन्दपदस्येत्यादिः । शेषमिति । तस्य चाभेदेनेत्यादीत्यर्थः । अन्यया चेति । अरविन्दपदोत्तरया चेत्यर्थः । एकदेशान्वयः प्राग्वदेवेत्याह-सादृश्यमिति । लुप्तास्थले बोधमाह-क्यङर्थेति । सादृश्यस्यातिरिक्तले आह-प्रयोजकतेति । धर्मरूपले आह-अभेदेति । विशेष्यमिति । अस्य चेत्यादिः । तत्र सादृश्ये । ननु