________________
रसगङ्गाधरः।
१८९ वतेः 'तेन तुल्यम्-' इति विहितस्य सादृश्यवदर्थकस्य सादृश्ये लक्षणा तस्य सुन्दरपदार्थैकदेशेन सुन्दरत्वेनान्वयादरविन्दमिव सुन्दरमित्यत्रेव बोधः । एकत्र शक्त्यापरत्र लक्षणया च सादृश्यप्रतिपादनाच्छोत्यार्थी चेति ।
अरविन्दवन्मुखमित्यत्र त्वरविन्दनिरूपितसादृश्यवदभिन्नमिति । अरविन्दवत्सौन्दर्यमस्येत्यत्रारविन्दशब्दस्यारविन्दसौन्दर्यलाक्षणिकतयारविन्दसौन्दर्यनिरूपितसादृश्याधिकरणमेतत्संबन्धिसौन्दर्यमिति मुखारविन्दसौन्दर्ययोः सादृश्यबोधे शाब्दे तयोरभेदाध्यवसायादभिन्नधर्ममूला पश्चान्मुखारविन्दयोरपि सादृश्यधीः । अरविन्देन तुल्यमित्यत्र तृतीयार्थो निरूपितत्वम् । तस्य च सादृश्येऽन्वयादरविन्दनिरूपितसादृश्याश्रयाभिन्नमिति । तत्रैव सौन्दर्येणेति धर्मनिर्देशे तृतीयार्थः प्रयोज्यत्वम् । तेनारविन्दनिरूपितसौन्दर्यप्रयोज्यसादृश्यवदभिन्नमिति । अरविन्दमाननं च सममित्यत्र पत्रमं शब्दात्सादृश्यवदभिन्नमिति बोधे पश्चान्मानसी वैयञ्जनिकी वा परस्परनिरूपितसादृश्यस्य प्रतीतिः प्रसिद्धा निरूपितसादृश्यस्य वा ।
श्या . छेरकत्वं चेति ध्येयम् । अरविन्दमिव सुन्दरमित्यत्रेवेति । वस्तुतस्तु क्रियायास्तुल्यत्वे एव 'तेन तुल्यम्-' इति वतिविधानादरविन्दमिव सुन्दरमित्यादिवत्कथं बोध इति चिन्यमिदम् । अत. एव ब्राह्मणवदधीते इत्यत्र ब्राह्मणकर्तृकाध्ययने ब्राह्मणपदस्य लक्षणेति महाभाष्यकारादयः । अरविन्दवन्सुन्दरं मुखमित्यत्र च भवतिक्रियाध्याहार्या । अरविन्दपदेन च सुन्दरारविन्दभवनं लक्ष्यते । तथा च सुन्दरारविन्दभवनसदृशं सुन्दरं मुखभवनमिति शाब्दे बोधे वृते अरविन्दमुख्योः सौदर्यधर्मकृतसादृश्यं व्यजनया 'बुध्यते । एवमरविन्दवन्मुखमित्यत्रापि अरविन्दभवनसदृशं मुखभवनमित्येव बोधो युक्त इति बोध्यम् । एकत्र अरविन्दमिवेत्यत्र । अपरत्र अरविन्दवदित्यत्र । सादृश्यवदभिन्नमितीति । बोध इत्यस्यानुषङ्गः । लक्षणा नेति भावः । अत एव तुः प्रयुक्तः । सौन्दर्यलाक्षणिकतयेति । तत्र तस्येवेति वरिवार्थे विहितत्वेन सादृश्यार्थकस्य तत्प्रयोजके लक्षणयारविन्दसादृश्यप्रयोजकमेतत्संबन्धिसौन्दर्यमिति बोधे उपपन्ने अरविन्दपदस्यारविन्दसौन्दर्यलक्षणा किंफला किंप्रमाणा चेति चिन्त्यमिदम् । शाब्दे इति । वृत्ते इति शेषः । तयोर्मुखारविन्दसौदर्ययोः । अभेदेत्यस्य सादृश्यमूलेल्यादिः । अभिन्नधर्मेति । सौन्दर्यरूपेत्यर्थः । सादृश्ये तुल्यपदार्थैकदेशे । अभिन्नमितीत्यस्य बोध इति शेषः । एवमग्रेऽपि निरूपितप्रयोज्यते सादृश्यविशेषणे । अभिन्न मिति । अरविन्दमाननं चेति शेषः । परस्परेति । मुखसादृश्यस्य कमले, कमलसादृश्यस्य मुखे इत्यर्थः । विनिगमनाविरहादिति भावः । प्रसिद्धवस्य गमकलादाह-प्रसिद्धति ।