________________
काव्यमाला।
अत्र श्लेषोपस्थापिताभ्यां पर्वतशुक्राभ्यां राजकाव्ययोरुपमे मेरुवृषपर्वभ्यां राज्ञ उपमयोरुपायः । नन्वत्र पर्वतानामिव राज्ञां शुक्र इव कवित्वे .इत्येवंरूपा उपमा कथं प्रत्येतुं शक्या । उपमानोपमेयशब्दयोः पार्थक्याभावादिति चेत् , श्लेषे ह्येकशब्दोपात्तत्वेन रूपेणाभेदाध्यवसानस्येव तेनैव साधर्म्यण सादृश्याध्यवसानस्यापि सुवचत्वात् , तस्यैव च प्रकृते प्रयोज्योपमानुकूलत्वात् । केवलं शुद्धपरम्परिता यथा
'राजा युधिष्ठिरो नाम्ना सर्वधर्मसमाश्रयः । •
द्रुमाणामिव लोकानां मधुमास इवाभवत् ॥' मालारूपशुद्धपरम्परिता यथा
'मृगतां हरयन्मध्ये वृक्षतां च पटीरयन् ।
ऋक्षतां सर्वभूपानां त्वमिन्दवसि भूतले ॥ उपमानयोः परस्परमुपमेययोश्चानुकूल्ये उपमेययोरेषोपायता निरूपिता । प्रातिकूल्ये उपायता यथा____ 'राजा दुर्योधनो नाम्ना सर्वसत्त्वभयंकरः ।
दीपानामिव साधूनां झञ्झावात इवाभवत् ॥' अत्रोपमानयोर्दीपझञ्झावातयोरन्योन्यमुपमेययोश्च साधुदुर्योधनयोः प्रातिकूल्येऽप्युपमयोः परस्परमानुकूल्यादुपायतैव । एवम्
'सरोजतामथ सतां शिशिरर्तवताधुना ।
श्रयपरिहारस्तु रूपकप्रकरणे वक्ष्यते । चस्वर्थे केवलपदोत्तरं वा योज्यः । महीभृतां पर्वतानां राज्ञां च गणे समूहे । रत्नसानुः सुमेरुः । काव्ये शुक्रे कविले च । वृषपव दैत्यराज इव । तेनैव एकशब्दोपात्तलेन साधयेण । मधुमास इव चैत्रमास इव । अत्र मालारूपताविरहात्केवलखम् , श्लेषाभावाच्छुद्धत्तम् , अन्योपायतारूपलात्परम्परितत्वमिति बोध्यम् । मृगतामिति । मृगा इवाचरतां सर्वभूपानां मध्ये हरयनिसह इवाचरन्वृक्षा इवाचरतां तेषां मध्ये पटीरयंश्चन्दनदुरिवाचरंस्वं ऋक्षतां नक्षत्राणीवाचरतां तेषां मध्ये भूतले चन्द्रवदाचरसीत्यर्थः । आनुकूल्ये इति । अनुकूलताख्यगुणे सतीत्यर्थः । मृगतां हरयन्नित्यत्रापि मृगाधिपवादानुकूल्यमेवेति बोध्यम् । एवं प्रातिकूल्ये शुद्धपरम्परितामुदाहरति-एवमिति । कमलवदाचरतां सतां मध्ये शिशि