________________
रसगङ्गाधरः।
१४३ अत्र सर्वेषामुपमानानां शब्दैरेवाभिधानात्समस्तवस्तुविषया अगोपमाभिनिष्पाद्यमानत्वाच्च साङ्गा भवति । एकदेशविवर्तिनी सावयवा यथा'मकरप्रतिमैर्महाभटैः कविभी रत्नसमैः समन्वितः।
कवितामृतकीर्तिचन्द्रयोस्त्वमिहोर्वीरमणासि कारणम् ॥' अनोत्तरार्धे उपमितसमास एव । विशेषणसमासवेद्यस्य तादात्म्यस्य प्रकृतेऽनुपयोगात् । राज्ञो जलधेरुपमा शब्देनानभिहिताप्यङ्गोपमाभिराक्षिप्ता प्रतीयते । इत्येकदेशविवर्तनादेकदेशविवर्तिनी । केवलश्लिष्टपरम्परिता यथा__'नगरान्तर्महीन्द्रस्य महेन्द्रमहितश्रियः ।
सुरालये खलु क्षीबा देवा इव विरेजिरे ॥' अत्र श्लेषोपस्थापितेन सुमेरुणा मदिरागारस्योपमा क्षीबानां देवोपमाया उपाय इति श्लिष्टपरम्परिता । अन्योन्योपायतारूपस्यैव परम्परितत्वस्येह परिभाषणात् , मालारूपताविरहाच । केवला मालारूपश्लिष्टपरम्परिता यथा
'महीभृतां खलु गणे रत्नसानुरिव स्थितः । त्वं काव्ये वसुधाधीश वृषपर्वेव राजसे ॥'
मजु हसितं यस्याः । सकलः पूर्णकलः कलाकान्तश्चन्द्रस्तद्वद्वदनश्रीर्यस्याः । अत्र उदाहरणद्वये । सर्वेषामवयवरूपाणामवयविरूपाणां च । तथा च तेषां तदभिधेयत्रमेव समस्तवस्तुविषयत्वमिति भावः । अङ्गोपमेति । अवयवोपमेत्यर्थः । एवमग्रेऽपि । साझा सावयवा । तथा चोपमानां सापेक्षवं सावयवत्वमिति भावः । मकरा मत्स्याः । कविता अमृतमिव । कीर्तिश्चन्द्र इव । विशेषणेति । मयूरव्यंसकेतीत्यर्थः । नगरान्तरिति । महेन्द्रवत्पूजिता श्रीर्यस्य तस्य राज्ञो नगरमध्ये सुरालये मत्ता देवा इव खलु विरेजिरे इत्यर्थः । गारस्योपमेति । सुरालये इतीति भावः । नन्वेवं श्लिष्टवेऽपि कथं परम्परितत्वमत आह-अन्योन्योपायतारूपस्यैवेति । सावयवायां परस्परसमर्थकलेऽपि नोपायता । ज्योत्स्नायां हसितलारोपं विनापि औज्वल्यादिना सीतायां राकासाम्यसिद्धेः । इह तु मदिरागारेषु सुमेरूपमा विना क्षीबेषु देवोपमायां न किंचित्साधर्म्यम् । तस्मिंश्च तादृशसादृश्यप्रतीतिमूलाभेदमापन्नसुरालयवृत्तित्वमेव तथा । मदिरागारेषु सुमेरूपमायां च क्षीबेषु देवोपमां विना न साधारणधर्म इत्यन्योन्योपायता । अन्योन्या