________________
१७६
काव्यमाला।
उपचरितो यथा'शतकोटिकठिनचित्तः सोऽहं तस्याः सुधैकमयमूर्तेः ।
येनाकारिषि मित्रं स विकलहृदयो विधिर्वाच्यः ॥' एषा सीतां विवासितवतः खात्मगता रामस्योक्तिः । अत्र काठिन्यं पार्थिवो धर्मश्चित्ते उपचरितः ।
केवलशब्दात्मको यथा'यत्र वसन्ति सुमनसि मनुजपशौ च शीलवन्तः सर्वत्र समाना मन्त्रिणो मुनय इव ।'
अत्रोपमानोपमेयगतस्यार्थस्यैकस्याभावाच्छब्द एव धर्मः । एवमेतेषां धर्माणां व्यामिश्रणं च संभवति । यथा
'श्यामलेनाकितं भाले बाले केनापि लक्ष्मणा ।
मुखं तवान्तरासुप्तभृङ्गफुल्लाम्बुजायते ॥' अत्र भालगताङ्कप्रसुप्तभृङ्गौ बिम्बप्रतिबिम्बभावमापन्नौ क्यङर्थे आचारेऽनुगामिन्यभेदमापद्य स्थितौ । यथा वा--
'सिन्दूरारुणवपुषो देवस्य रदाङ्कुरो गणाधिपतेः।
संध्याशोणाम्बरगतनवेन्दुलेखायितः पातु ॥' अत्र सिन्दूरसंध्याभ्यां गणाधिपगगनाभ्यां च बिम्बप्रतिबिम्बभावमापन्नाभ्यां [ धर्माभ्यां ] संपादिताभेदेन विशिष्टधर्मेणाभेदेनावस्थितः क्यङर्थोऽनुगामी।
न तथेति । तथा तु प्रकृते नेत्यर्थः । गणाधिपगगनाभ्यामिति । गणाधिपगगनयोर्बिम्बप्रतिबिम्बभावे च बिम्बप्रतिबिम्वभावापन्नसिन्दूरसंध्याविशेषणकारुणवशोणत्वे वस्तुप्रतिवस्तुभावापन्ने एव साधारणधर्म इति तयोरभेदेन विशिष्टधर्मेणेत्युक्तिरिति भावः । क्यङर्थोऽनुगामीति । यद्यपि प्रसिद्धौज्वल्यशोभाविशेषादिकमादाया. प्याचारोऽनुगामी कर्तुं शक्यते तथापि कवितात्पर्यविषयतास्यैवेति बोध्यम् । तादृशशोभा