________________
रसगङ्गाधरः।
१७७
कचिद्धेतुहेतुमद्भावेन । यथा
'खलः कापट्यदोषेण दूरेणैव विसृज्यते ।
अपायशङ्किभिोकैर्विषेणाशीविषो यथा ॥' अत्र कापट्यं विषं च बिम्बप्रतिबिम्बतां गतं दूरतो विसर्जनेऽनुगामिनि हेतुः। यथा वा
'रूपवत्यपि च क्रूरा कामिनी दुःखदायिनी ।
अन्तः काटवसंपूर्णा सुपक्केवेन्द्रवारुणी ॥' अत्र रूपवत्त्वदुःखदायित्वयोर्द्वयोरनुगामिनोर्मध्ये क्रौर्यकाटवे बिम्बप्रतिबिम्बभावापन्ने दुःखदायित्वेन सह हेतुहेतुमद्भावेन मिश्रिते । अपरेण तु शुद्धसामानाधिकरण्येन । एवमन्यैरपि व्यामिश्रणं बोध्यम् । प्रकारान्तरं च लक्ष्यानुसारेण सुधीभिः खयमुन्नेतुं शक्यम् । यथा'यथा लतायाः स्तबकानतायाः स्तनावनने नितरां समासि ।
तथा लता पल्लविनी सगर्वे शोणाधरायाः सहशी तवापि ॥' अत्र स्तनावनम्राहं स्तबकानताया लताया उपमानमसीति गर्व मा विदध्याः । यतः शोणाधराया उपमेयायास्तवापि पल्लविनी लतोपमानं भवतीति वाक्यार्थे यथातथापदप्रतिपाद्या कान्तोपमानिका लतोपमेयिकोपमा निष्पादिका । अस्यां चोपमायां निरूपकतासंबन्धेनोपमानोपमेयगते द्वे उपमे समसदृशशब्दाभ्यां प्रतिपादित बिम्बप्रतिबिम्बभावमापन्ने साधारणधर्मतया स्थिते । तत्र निरूपकतासंबन्धेन प्रधानीभूतोपमोपमान
विशेषयोरैक्यप्रतिपत्तये वानयोर्बिम्बप्रतिबिम्बभाव आवश्यक इत्याहुः केचित् । अनु. गामिनि हेतुरितिातयोर्बिम्बप्रतिबिम्बभावं विना भिन्नप्रकरणकत्वेन दूरविसर्जने भेद• प्रतीत्यानुगामित्वमेव न स्यादिति भावः । उपमा निष्पादिकेति । एवं च वाक्यार्थोपस्कारिकेयमुपमेत्यर्थः । बिम्बप्रतिबिम्बभावमापने इति । यद्यपि समसदृशशब्दाभ्यां प्रतिपादितोपमयोर्वस्तुप्रतिवस्तुभाव एव, तथापि तद्विशेषणयोः शोणाधरनायिकास्तबकावनम्रलतयोर्विम्बप्रतिबिम्बभाव आवश्यक इति भावः । तयोश्च बिम्बप्रतिबिम्बभावे सादृश्यानुयोगिलमेव साधारणो धर्म इति ध्येयम् । तत्र तयोरुपमयोर्मध्ये ।