________________
रसगङ्गाधरः।
१७५
अत्रालिङ्गितत्वलग्नत्वयोर्वस्तुप्रतिवस्तुभावः । तद्विशेष्यकयोश्च जलधिकन्याप्रियंगुलतयोर्बिम्बप्रतिबिम्बभावः । इत्ययमपि तत्करम्बित एव । तत्र तृतीयो यथा
'दशाननेन दृप्तेन नीयमाना बभौ सती ।
द्विरदेन मदान्धेन कृष्यमाणेव पद्मिनी ॥' अत्र विशेषणयोईप्तत्वमदान्धत्वयोर्विशेष्ययोश्च नीयमानत्वकृष्यमाणत्वयोर्वस्तुप्रतिवस्तुभावेनोभयतः संपुटितो दशाननद्विरदयोर्बिम्बप्रतिबिम्बभावः । इत्ययमपि तत्करम्बितः ।।
'विमलं वदनं तस्या निष्कलङ्कमृगाङ्कति' इत्यत्र वैमल्यनिष्कलङ्कत्वयोर्वस्तुत एकरूपयोर्बिम्बप्रतिबिम्बभावनिर्मुक्तं वस्तुप्रतिवस्तुभावमापन्नयोरुपमानिष्पादकत्वं यद्यस्ति तदा शुद्धं वस्तुप्रतिवस्तुभावमापन्नोऽप्येष षष्ठो धर्मः । न च 'कोमलातपशोणाभ्रसंध्याकालसहोदरः' इत्यादौ यतिसंध्याकालयोरुपमायां धर्मान्तरस्यानवगमात्कुङ्कुमालेपकषायवसनयोः कोमलातपशोणाभ्रयोश्च बिम्बप्रतिबिम्बभावो यथावश्यमभ्युपेयः, प्रकृते तु न तथा वस्तुप्रतिवस्तुभावः । वदनमृगाङ्कयोः सौन्दर्यरूपसाधारणधर्मस्य प्रतीयमानत्वेन धर्मान्तरानपेक्षणादिति वाच्यम् । एवं तर्हि ‘यान्त्या मुहुर्वलितकंधरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या' इति भवभूतिपद्येऽपि प्रतीयमानेन सौन्दर्येणैव सामान्येन निर्वाहे कंधरावृन्तयोर्बिम्बप्रतिबिम्बभावस्य वलितत्वावृत्तत्वयोर्वस्तुप्रतिवस्तुभावस्य च सकलैरालंकारिकैः खीकारो विरुद्धः स्यात् । अतो यथास्थितमेव साधुः ।
द्वितीयार्धे तु 'कषायवसनो याति' इत्यादौ । यद्यस्ति तदेत्यनेनारुचिः सूचिता । तद्बीज तु-एकोऽप्यों भिन्नशब्देनोपात्तो भिन्न इव प्रतीयते । अत एव 'उदेति सविता ताम्रस्ताम्र एवास्तमेति च' इत्यादौ 'रक्त एवास्तमेति च' इति पाठे दुष्टतेति प्राञ्चः । प्रकृते संबन्धिभेदादपि भेदप्रत्ययस्तयोः । मित्ररूपेण प्रतीयमानस्य च न साधारणता । साधारणीकरणस्य च न कश्चिदुपायः, विना बिम्बप्रतिबिम्बभावापनकधर्मसंबन्धिलम् । तथा च शब्दाद्भेदेन प्रत्यये संबन्धिभेदाच भेदप्रत्यये बिम्बप्रतिबिम्बभावापनकधर्मसंबन्धिलेन तयोरभेदाध्यवसाये साधारणवस्येति कथं शुद्धस्योपमानिष्पादकत्वम् । अत एव प्राञ्चः बिम्बप्रतिबिम्बभावकरम्बित एवायमित्याहुरिति । प्रकृते तु