________________
१७४
काव्यमाला।
एवं च प्राचां मते पञ्चविंशतिभेदायाः पुनः पञ्चविधतायां सपादशतं भेदाः । द्वात्रिंशद्धेदवादिनां तु षष्टयुत्तरं शतम् । इतश्चान्येऽपि प्रभेदाः कुशाग्रीयधिषणैः स्वयमुद्भावनीयाः । तत्र कचिदनुगाम्येव धर्मः । कचिच्च केवलं बिम्बप्रतिबिम्बभावमापन्नः । क्वचिदुभयम् । कचिद्वस्तुप्रतिवस्तुभावेन करम्बितं बिम्बप्रतिबिम्बभावम् । कचिदसन्नप्युपचरितः । कचिच्च केवलशब्दात्मकः। तत्राद्यो यथा
'शरदिन्दुरिवाहादजनको रघुनन्दनः ।
वनस्रजा विभाति स्म सेन्द्रचाप इवाम्बुदः ॥' अत्र पूर्वार्धे सकृन्निर्देशाद्धर्मोऽनुगामी ।
केवलबिम्बप्रतिबिम्बमावापन्नः 'कोमलातपशोणाभ्र-' इत्यत्र बोध्यः । द्वितीयार्थे तूभयम् ।
तृतीयोऽपि त्रिविधः-विशेषणमात्रयोर्विशेष्यमात्रयोस्तयुगलयोर्वा वस्तुप्रतिवस्तुभावेन करम्बितः। तत्राद्यो यथा
'चलमृङ्गमिवाम्भोजमधीरनयनं मुखम् ।
तदीयं यदि दृश्येत कामः क्रुद्धोऽस्तु किं ततः ॥ अत्र चलनाधीरत्वयोर्विशेषणयोर्वस्तुत एकरूपयोरपि शब्दद्वयेनोपादानाद्वस्तुप्रतिवस्तुभावः । तद्विशेषणकयोश्च भृङ्गनयनयोर्बिम्बप्रतिबिम्बभावः । इति तत्करम्बितोऽयमुच्यते । तत्र द्वितीयो यथा'आलिङ्गितो जलधिकन्यकया सलीलं
लमः प्रियंगुलतयेव तरुस्तमालः । देहावसानसमये हृदये मदीये
देवश्चकास्तु भगवानरविन्दनाभः ॥'
अलंकारस्वप्रधानमेवेति भावः । वाच्यतायामपि विरोध इत्यनुषङ्गः । उभयं अनुगामित्वं बिम्बप्रतिबिम्बभावं च । अयं चोक्तान्तर्गतोनतिरिको भेदः । अत एव वक्ष्यतितृतीयोऽपि त्रिविध इति । षष्ठ इति च । वनस्रजा आपादतलावलम्बिमालया।