________________
रसगङ्गाधरः ।
१७३
अत्र प्राधान्येन व्यङ्गये आरोप्यमाणचन्द्रके भ्रान्तिमत्यलंकारे उपपादकस्य भालस्थमृगमदपङ्कविषयकस्याङ्काभेदारोपस्याङ्कसादृश्यरूपदोषमूलकत्वादुपमात्रालंकारः।
रसोपस्कारिका तु 'दरदलदरविन्द-' इत्यत्र प्रागेवोदाहृता । रसपदेनासंलक्ष्यक्रमस्योपलक्षणाद्भावाद्युपस्कारिकाप्यत्रैवान्तर्भाव्या । यथा'नैवापयाति हृदयादधिदेवतेव', 'वन्यकुरङ्गीव वेपते नितराम्' इत्यादिषु प्रागुदाहृतेषु । वाच्यवस्तूपस्कारिका यथा'अमृतद्रवमाधुरीभृतः सुखयन्ति श्रवसी सखे गिरः ।
नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव ॥' अत्र नयनशिशिरीकरणरूपे वस्तुनि वाच्ये मुखस्य शरदिन्दूपमोपस्कारिका । वाच्यालंकारोपस्कारिका यथा
'शिशिरेण यथा सरोरुहं दिवसेनामृतरश्मिमण्डलम् ।
न मनागपि तन्वि शोभते तव रोषेण तथेदमाननम् ॥' अत्र वाच्यस्य दीपकस्योपमोपस्कारिका । रसादिस्तु न वाच्य इति प्रागेवाभिहितम् ।
अथ कथमलंकारस्यालंकारान्तरोपस्कार्यत्वमुच्यते । प्रधानस्यैवालंकायत्वादिति चेत् , मैवम् । अलंकारस्योपमादेव॑न्यमानतायां प्राधान्याद्रसादिवदलंकारान्तरोपस्कार्यत्वे न कोऽपि तावदस्ति विरोधः । एवमेव मुख्यतया वाच्यतायामपि । यथा ह्यापणादौ विक्रीयमाणतायां कनकताटकस्य रत्नाद्यलंकारान्तरोपस्कार्यत्वे तस्यैव च कामिनीकर्णालंकरणतायां पुनः प्रधानान्तरसांनिध्यात्ताटङ्कस्य तद्गतरत्नानां च साक्षात्परम्परया च कर्णादिशोभोपस्कारकतया यथा तदलंकात्वम् , एवमेव रसादिसांनिध्ये रूपकादेस्तदुपस्कारकस्यालंकारान्तरस्य च रसाधलंकारतेति । त्यर्थः । नन्वत्रोपमालंकारो नैवात आह-अत्र प्राधान्येनेति । व्यङ्ग्ये इति । वाक्यव्यङ्ग्ये इत्यर्थः । अलंकारे सतीति शेषः । उपपादकेल्यस्य तस्येत्यादिः । अत्रालंकार इति । तथा च तदुपस्कारकसमस्याः स्पष्टमिति भावः । ननु वस्त्रलंकारयोरिव रसस्यापि वाच्यत्वेन षोढा वक्तुमुचितेयमत आह-रसादिरिति । प्रधानस्यैवेति ।