________________
रसगङ्गाधरः।
१६७ कर्तृकर्मणमुल्गता यथा
'निरपायं सुधापायं पयस्तव पिबन्ति ये ।
जह्वजे निर्जरावासं वसन्ति भुवि ते नराः ॥' अत्र सुधापायमिति सुधामिव निर्जरावासमिति निर्जरा इवेति 'उपमाने कर्मणि च' इति कर्मणि चकारात्कर्तर्युपमान उपपदे णमुल् । धर्मोपमानलुप्ता वाक्यगा समासगा च यथा
'गाहितमखिलं विपिनं परितो दृष्टाश्च विटपिनः सर्वे ।
सहकार न प्रपेदे मधुपेन तथापि ते समं जगति ॥' 'तथापि ते समं' इति हित्वा 'भवत्समं' इति यद्यार्या शुद्धैव विधीयते तदेदमेवोदाहरणं समासगायाः। वाचकधर्मलुप्ता क्विब्गता यथा
'कुचकलशेष्वबलानामलकायामथ पयोनिधेः पुलिने । क्षितिपाल कीर्तयस्ते हारन्ति हरन्ति हीरन्ति ॥' अत्र हारहरहीरशब्दा आचारार्थके विपि लुप्ते धातवः । तत्र हारादिशब्दा लक्षणया हारादिसादृश्यं बोधयन्ति । लुप्तोऽपि स्मृतः क्विबाचारमिति पक्षे वाचकधर्मलोपः स्पष्ट एव । दारादिशब्दा एव लक्षणया तादृशसादृश्याभिन्नमाचारमिति पक्षे सादृश्यस्येव धर्मस्यापि तन्मात्रबोधकाभावाल्लोप एव । वाचकधर्मलुप्ता समासगा यथा
'शोणाधरांशुसंभिन्नास्तन्वि ते वदनाम्बुजे ।
केसरा इव काशन्ते कान्तदन्तालिकान्तयः ॥' अत्र वदनाम्बुजयोरभेदविवक्षया विशेषणसमासे दन्तालिकान्तीनां के
दीति । गाहितमिति । यद्यपीत्यादिः । तथापि हे सहकार, जगति तव तुल्यं वस्तु भ्रमरेण न प्राप्तमित्यर्थः । शुद्धैवेति । आर्यासामान्यलक्षणाक्रान्तवात् । सा तु मिश्रितेति भावः । धातव इति । तथा च हारन्तीत्यादिप्रयोगसिद्धिरिति भावः । तत्र उक्तप्रयोगेषु । आचारमिति । बोधयतीति शेषः । स्पष्ट एवेति । सादृश्यस्य शक्तिप्रतिपाचत्वात्विपो लुप्तत्वाच्चेति भावः । तादृशेति । हारादीत्यर्थः । तदित्युचितम् । अभिन्नमिति । तस्य धर्मरूपत्वादिति भावः । संभिन्ना मिश्राः । कान्ताश्च ते दन्ताश्वेत्यर्थः । विशेषणेति । मयूरव्यंसकेतीत्यर्थः । अधिकरणेति । वदनाम्बुजे इत्यत्र