________________
१६६
सादृश्याभिन्नं वा वेदनाहरणकर्तृत्वं विधेयमित्युपमाविधेयिका धीः । धर्मलुप्तायां तु वारिधरसादृश्यावच्छिन्नवृष्णिवरेण्यमुद्दिश्य वेदनाहरणकर्तृत्वमात्रं विधेयमित्युपमोद्देश्यतावच्छेदिका ।
काव्यमाला |
धर्मलुप्ता आर्थी वाक्यगता यथा
――――――――――
'कोपेऽपि वदनं तन्वि तुल्यं कोकनदेन ते । उत्तमानां विकारेऽपि नापैति रमणीयता ॥
धर्मलुप्ता समासगा श्रौत्यार्थी तद्धितगार्थी च यथा
'सुधेव वाणी वसुधेव मूर्तिः सुधाकर श्रीसदृशी च कीर्तिः । पयोधिकल्पा मतिरांसफेन्दोर्महीतलेऽन्यस्य नहीति मन्ये ॥ ईषदसमाप्तिरपि भङ्ग्यन्तरेण सादृश्यमेव ।
वाचकलुप्ता समासगा — 'दरदलदरविन्दसुन्दरं ' इति प्रागुदाहृते पद्ये । कर्माधारक्यज्गता क्यङ्गता च यथा
'मलयानिलमनलीयति मणिभवने काननीयति क्षणतः । विरहेण विकलहृदया निर्जलमीनायते महिला ॥' अत्रानलमिवाचरतीत्यर्थेऽनलशब्दात् 'उपमानादाचारे' इति सूत्रेण, कानन इवाचरतीत्यर्थे काननशब्दाच्च तत्सूत्रस्थेन ' अधिकरणाच' इति वार्तिकेन क्यच् । निर्जलमीनशब्दाच्च 'कर्तुः क्यङ् सलोपश्च' इति क्या । आचारमात्रार्थकतया क्यच्क्यङोः प्रकृत्यैव लक्षणया स्वस्वार्थसादृश्यप्रतिपत्तिरिति नये सादृश्यवाचकाभावाद्वाचकलुप्ता । अनलीयतीत्यादिसमुदायस्यैवानलादिसादृश्यप्रयोजकाचरणकर्तृशक्तत्वमिति नयेऽपि सादृश्यसादृश्य विशिष्टान्यतरमात्रवाचकाभावाद्वाचकलुप्ता ।
तादृशेति । प्रावृषेण्येत्यर्थः । अवच्छेदि केत्यस्येतीति शेषः । सादृश्यमेवेति । तथा च तद्विशिष्टार्थप्रतिपादकत्वादार्थी । कर्माधारेति । वाचकलुप्तेत्यादिः । नन्वेवमाचारवत्सादृश्यस्यापि क्यजादिना बोधनात्कथं वाचकलुप्तात्वमतं आह— आचारेति । साहश्यवाचकाभावादिति । शक्त्येति भावः । ननु नेदं युक्तम् । अत्र मते इत्रादीनां द्योतक - तानये सर्वत्रैव वाचकाभावाद्वाचकलुप्तात्वापत्तेः । चन्द्रप्रतिपक्षमाननमित्यत्रापि वाचक - लुप्ताखापत्तेश्च । तत्र हि प्रतिपक्षपदेन सादृश्यं लक्ष्यमेव । तस्मात्सादृश्य सादृश्य विशिष्टान्यतर मात्र बोधकाभाव एव वाचकलोप इति तत्वम् । अत आह— अनलीयतीत्या
१. नबाब आसफखान इति नाम्ना प्रसिद्धस्य.