________________
रसगङ्गाधरः।
१६५ उपमानलुप्ता वाक्यगा यथा
'यस्य तुलामधिरोहसि लोकोत्तरवर्णपरिमलोद्गारैः।
कुसुमकुलतिलक चम्पक न वयं तं जातु जानीमः ॥' यत्तुलनामधिरोहसीत्याद्यचरणनिर्माणे इयमेव समासगा । उपमाभावेन सादृश्याभावस्य पर्यवसानात्सादृश्यपर्यवसानस्य चोपमाजीवितत्वादलंकारान्त. रमेवात्र नोपमानलुप्तेति नाशङ्कनीयम् । यस्य तुलामारोहसि न तं वयं जानीम इत्युक्त्या अस्माकमसर्वज्ञत्वादस्मदगोचरः कोऽपि तवोपमानं भविष्यतीति सादृश्यपर्यवसानमस्तीत्युपमानलुप्तैवेयमुपमा, नालंकारान्तरम् ।
एतेन
‘हुँढुंणन्तो हि मरीहिसि कण्टककलिआई केअइवणाई ।
मालइकुसुमसरिच्छं भमर भमन्तो न पावहिसि ॥' इत्यत्रासमालंकारोऽयमुपमातिरिक्त इति वदन्तोऽलंकाररत्नाकरादयः परास्ताः । धर्मलुप्ता श्रौती वाक्यगता यथा'कलाधरस्येव कलावशिष्टा विलूनमूला लवलीलतेव ।
अशोकमूलं परिपूर्णशोका सा रामयोषा चिरमध्युवास ॥' 'ग्रीष्मचण्डकरमण्डल-' इति प्रागुदाहृते पूर्णाया उदाहरणे प्रावृघेण्यो वारिधर इव यो वृष्णिवरेण्यः स मे वेदनां हरत्विति वृष्णिवरेण्यमात्रगतत्वेन वेदनाहरणकर्तृत्वं विवक्षितम् । वारिधरसादृश्यं च श्यामत्वादिना यदि तदा तत्राप्येषा बोध्या । इयांस्तु विशेषः-यत्पूर्णायां वृष्णिवरेण्यमात्रमुद्दिश्य प्रावृषेण्यवारिधरसादृश्यप्रयोजकं तादृशवारिधर
छेति चम्पकविशेषणम् । यत्तुलनामिति । यस्य तुलनां यत्तुलनामित्यर्थः । शङ्कतेउपमानेति । यस्येति । यतं इत्यादिः । इत्युक्त्येति । स नास्तीत्युक्तिरन्यथा स्यादिति भावः । एतेनेति । उक्तरीत्या सादृश्यपर्यवसानेनेत्यर्थः । अत्रापि तत्प्राप्तिस्तव दुर्ल. भेत्युक्तं न तु स नास्तीति भावः । 'ढुंटुं कृत्वा हि मरिष्यसि कण्टककलितानि केतकीवनानि । मालतीकुसुमसदृक्षं भ्रमर भ्रमन्न प्राप्स्यसि ॥' लवलीलता 'हरफारेवडी' इति भाषया प्रसिद्धा । अशोकमूलमिति। उपान्व-' इत्याधारः कर्म। श्यामत्वादिनेति । विवक्षितमित्यनुषगः । सादृश्यस्यातिरिक्तत्वे आह-प्रावृषेण्येति । धर्मरूपत्वे आह