________________
१६४
काव्यमाला ।
अत्र प्रावृषेण्य इत्यनेन वारिधरविशेषणेन नैराकाङ्क्षयात्, इवेन समासः । एषा चोपमानोपमेययोर्वारिधर भगवतोर्वेदनाहरणकर्तृत्वस्य साधारणधर्मस्य सादृश्यबोधकस्येवशब्दस्य चाभिधानात्पूर्णा । सादृश्यस्य श्रुत्याबोधनाच्छौती । पूर्णा आर्थी वाक्यगता यथा'प्राणापहरणेनासि तुल्यो हालाहलेन मे । शशाङ्क केन मुग्धेन सुधांशुरिति भाषितः ॥' पूर्णा श्रौती समासगा यथा
'हरिचरणकमलनखगणकिरणश्रेणीव निर्मला नितराम् । शिशिरयतु लोचनं मे देवत्रतपुत्रिणी देवी ॥' अत्रेवेन समासः । पूर्णा आर्थी समासगा यथा
'आनन्दनेन लोकानामातापहरणेन च । कलाधरतया चापि राजन्निन्दूपमो भवान् ॥' पूर्णा श्रौती आर्थी च तद्धितगा यथा
‘निखिलजगन्महनीया यस्याभा नवपयोधरवत् । अम्बुजवद्विपुलतरे नयने तद्ब्रह्म संश्रये सगुणम् ॥' अत्र पूर्वार्धे वतेः ‘तत्र तस्येव' इति सादृश्ये विधानाच्छ्रौती । उत्तरार्धे 'तेन तुल्यं -' इति विधानात्सादृश्यवदर्थकतया आर्थी ।
गमनं तेनेत्यर्थः । वृष्णिवरेण्यः कृष्णः । वाक्यगतत्वमाह - अत्रेति । इवेन समास इति 'सुप्सुपा' इत्यस्यानित्यत्वेनास्य तत्प्रपञ्चत्वात् । एवं च वैकल्पिकत्वात्तदभाव इति भावः । पूर्णात्वमाह - एषेति । श्रुतेति । इवेनेत्यर्थः । विशेष्यतयेति भावः । प्राणापेति । अत्र समासाभावाद्वाक्यगत्वम् । विषचन्द्रयोः प्राणापहारकत्वरूपधर्मस्य तुल्यशब्दस्य चोपादानात्पूर्णात्वम् । तुल्यशब्दस्य सदृशार्थकत्वेऽपि प्राधान्येनेवशब्दवत्सादृश्यबोधकत्वाभावादार्थलम् । हरीति । देवत्रतेन पुत्रिणी । पुत्रवतीत्यर्थः । अत्रापि चतुर्णामिवास्य चोपादानात्पूर्णा त्वं श्रौतीत्वं च । समासगावमाह - अत्रेति । आनन्दनेनेति । करणे ल्युट् । लोकानामिति मध्यमणिन्यायेनान्वेति । आ समन्तात्तापेत्यर्थः । इन्दूपमो भवानिति । अत्र समासस्य धर्मिशक्तत्वात्कर्मसाधनेनोपमाशब्देन समासाद्वा आर्थीत्वं समासगत्वं च । पूर्णात्वं तु स्पष्टमेव । सगुणं ब्रह्म कृष्णरूपम् । कुसुमकुलानां तरूणां तिलकं श्रे
१. देवव्रतो भीष्मः, तेन पुत्रवती गङ्गा.