________________
रसंगङ्गाधरः।
१६३ लक्षणं नातीव रमणीयम् । व्यतिरेके निषेधप्रतियोगिनि सादृश्येऽतिव्यापनात् । न च पर्यवसितत्वेन साधर्म्य विशेषणीयमिति वाच्यम् । अनन्वयस्थसादृश्यस्यापर्यवसायित्वेनैव वारणे भेदविशेषणवैयर्थ्यापत्तेः । काव्यालंकारप्रस्तावे लौकिकालौकिकप्रधानवाच्यव्यङ्ग्योपमासामान्यलक्षणकरणानौचित्याच्च । अत एव 'भेदाभेदतुल्यत्वे साधर्म्यमुपमा' इत्यलंकारसर्वखोक्तमपि लक्षणं तथैव । एवं प्रसिद्धगुणेनोपमानेनाप्रसिद्धगुणस्योपमेयस्य सादृश्यमुपमा' इत्यलंकाररत्नाकरोक्तमपि न भव्यम् । श्लेषमूलकोपमायां तादृशशब्दात्मकस्य धर्मस्य कविनैव कल्पनात् । तेन रूपेणोपमानस्याप्रसिद्धेश्च इत्यलं परकीयदूषणगवेषणया । प्रकृतमनुसरामः । - अस्याश्चोपमायाः प्राचामनुसारेण केचिद्भेदा उदाह्रियन्ते । तथाहिउपमा द्विविधा, पूर्णा लुप्ता च । पूर्णा तत्र–श्रौती, आर्थी चेति द्विधा भवन्ती वाक्यसमासतद्धितगामितया षोढा । लुप्ता चउपमानलुप्ता, धर्मलुप्ता, वाचकलुप्ता, धर्मोपमानलुप्ता, वाचकधर्मलुप्ता, वाचकोपमेयलुप्ता, धर्मोपमानवाचकलुप्तेति तावत्सप्तविधा । तत्रोपमानलुप्ता-वाक्यगा, समासगा चेति द्विविधा । धर्मलुप्ता-समासगताश्रौती, आर्थी । वाक्यगता-श्रौती, आर्थी । तद्धितगता च—आर्युव, न श्रौती । इति पञ्चविधा । वाचकलुप्ता-समासगता, कर्मक्यज्गता, आधारक्यज्गता, क्यङ्गता, कर्मणमुल्गता, कर्तृणमुल्गता चेति षड्डिधा । धर्मोपमनालुप्ता-वाक्यगता, समासगता चेति द्विविधा । वाचकधर्मलुप्ता विब्गता, समासगता चेति द्विविधैव । वाचकोपमेयलुप्ता त्वेकविधा । धर्मोपमानवाचकलुप्ता तु समासगतेकविधा । इति । एवं साकल्येनैकोनविंशतिर्खप्ताभेदाः पूर्णाभेदैः सह पञ्चविंशतिः क्रमेणोदाह्रियन्ते । तत्र पूर्णा श्रौती वाक्यगता यथा
'ग्रीष्मचण्डकरमण्डलभीष्मज्वालसंसरणतापितमूर्तेः ।। प्रावृषेण्य इव वारिधरो मे वेदनां हरतु वृष्णिवरेण्यः ॥'
ति।अतएवेति। प्रकाशग्रन्थे। उक्तादोषगणादेवेत्यर्थः । तथैव नातीव रमणीयमित्यर्थः । एवमिति। व्यतिरेकेऽतिव्यापनादित्यर्थः। ननु पर्यवसितखेन विशेषणान्न दोषोऽत आहश्लेषेति । प्राचां प्रकाशकारादीनाम् । तत्र तयोर्मध्ये । तत्र तासां सप्तानां मध्ये । तत्र पञ्चविंशतीनां मध्ये । ग्रीष्मेति । मण्डलस्य भीष्मा ज्वाला यत्र तत्र देशे यत्संसरणं