________________
रसगङ्गाधरः।
१६१ अप्पयदीक्षिताः पुनश्चित्रमीमांसायाम् – 'उपमितिक्रियानिष्पत्तिमत्सादृश्यवर्णनमदुष्टमव्यङ्गमुपमालंकारः । खनिषेधापर्यवसायि सादृश्यवर्णनं वा तथाभूतं तथा' इति लक्षणद्वयमाहुः । तच्चिन्त्यम् । वर्णनस्य विलक्षणशब्दात्मकस्य विलक्षणज्ञानात्मकस्य वा शब्दवाच्यताविरहेणार्थालंकारताया बाधात् । तस्य सर्वथैवाव्यङ्ग्यत्वादव्यङ्ग्यत्वविशेषणवैयर्थ्याच्च । अथ यदि वर्णनविषयीभूतं तादृशसादृश्यमुपमेत्युच्यते तदा यथा गौस्तथा गवय इत्यत्रोपमालंकारापत्तेः । एवं 'कालोपसर्जने च तुल्यम्' इत्यादावपि । अशिष्यत्वादिना प्रधानप्रत्ययार्थवचनसादृश्यस्यात्रापि प्रतिपादनात् । न चात्र वचनभेदस्य दोषस्य सत्त्वाददुष्टत्वविशेषणेन वारणं भविष्यतीति वाच्यम् । एतद्वाक्योपप्लुतवाक्यान्तरप्रतिपादितैकोपमेयके सादृश्ये तथाप्यतिप्रसङ्गात् । न चात्रोपमितिक्रियाया निष्पत्तावपि न सादृश्यवर्णनम् । विषयस्याचमत्कारित्वात् । चमत्कारिविषयककविव्यापारस्यैव वर्णनपदार्थत्वादिति वाच्यम् । एवं हि चमत्कारित्वस्य लक्षणेऽवश्यं निवेश्यत्वेनोपमितिक्रियानिष्पत्तिविशेषणस्य वैयर्थ्यात् । नानिष्पन्नमापाततः प्रतीयमानं सादृश्यं चमत्कृतिमाधत्ते । एवं द्वितीयलक्षणेऽपि निषेधापर्यवसायित्वं निरर्थकम् । व्यतिरेके कमलादिसादृश्यनिषेधस्यान्वये च सर्वथा सादृश्यनिषेधस्य चमत्कारितया तदर्थं सादृश्यस्य निरूपणमिति प्रागेवाभिधानात् । किं च ।
'स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः । शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥'
तुल्यकक्षवम् । अत आह-परस्परेति । तस्य संधेः । पुनःशब्दार्थे शब्दस्य शब्दवाच्यखमते नायं दोषोऽत आह-विलक्षणज्ञानेति । अव्यङ्ग्यत्वाद्यङ्ग्यवाभावात् । तादृशेति । अदुष्टाव्यङ्ग्याद्यविशेषणद्वयान्यतरेत्यर्थः । इत्यादावपीति । उपमालंकारापत्तिरित्यस्यानुषङ्गः । आदिसंग्राह्य चिन्त्यम् । अत्रापि कालोपसर्जनयोरपि । अत्र 'कालोपसर्जने च तुल्यम्' इत्यत्र । द्विवचनोपादानादिति भावः । एतदर्थमेव द्वितीयदोषोक्तिः । उपप्लतेति । कल्पितेत्यर्थः । प्रधानप्रत्ययार्थवचनवत्काल इत्यादीति भावः । तदाह-एकोपमेयेति । अत्रेति । यथा गौरित्यादावित्यर्थः । व्यतिरेक इति । तवाननस्येत्यादावित्यर्थः । कमलादिसादृश्येति । कमलादिनिष्ठसादृश्येत्यर्थः । ननु वर्णनपदस्य चमत्कारजनकज्ञानविषयीभूतानुयोगिकवार्थे तात्पर्यग्राहकमिदम्, न तु लक्षणशरीरपदकमिति चेत् , तत्राह-किंचेति । वाक्यार्थत्वेनेति । तथा