________________
१६०
काव्यमाला।
एवम्
'भुजो भगवतो भाति चञ्चच्चाणूरचूर्णने ।
जगन्मण्डलसंहारे वेगवानिव धूर्जटिः ॥' __ अत्र धूर्जटिभगवद्भुजयोराकारेण सादृश्यस्याभावात्प्रकारनिर्मुक्तस्य केवलभानस्याप्रयोजकतया चाणूरचूर्णननिमित्तकचाञ्चल्यवत्त्वजगन्मण्डलसंहारनिमित्तकवेगवत्त्वयोर्भानप्रकारयोरभेदाध्यवसानेनाभिन्नधर्मप्रकारकभानविशेष्यत्वस्य साधारणधर्मस्य सिद्धरुपमासिद्धिः । तत्र चाणूरजगन्मण्डलयोर्वस्तुतो भिन्नयोर्महाकायत्वादिना सादृश्याद्विम्बप्रतिबिम्बभावः । चूर्णनसंहारयोश्वाञ्चल्यवेगवत्त्वयोस्त्वाश्रयभेदाद्भिन्नयोरपि वस्तुत एकरूपतैवेति वस्तुप्रतिवस्तुभावः । इत्येवं निरूपितमुपमालक्षणम् । अथेयमुदाहियते'गुरुजनभयमद्विलोकनान्तः समुदयदाकुलभावमावहन्त्याः ।
दरदलदरविन्दसुन्दरं हा हरिणदृशो नयनं न विस्मरामि ॥' अत्र दलदरविन्दशब्दस्योपमानवाचकस्य सुन्दरशब्देन सामान्यवचनेन समासे प्रतीयमानोपमा सकलवाक्यार्थस्य विप्रलम्भशृङ्गारस्य स्मृत्युपस्करणद्वारोपस्कारकतयालंकारः। न चात्र स्मृतिः प्रधानतया ध्वन्यत इति वक्तुं शक्यम् । न विस्मरामीति स्मृत्यभावनिषेधमुखेन स्फुटमावेदनात् । नापि पूर्वार्धगतत्रासौत्सुक्ययोः परस्पराभिभवकामयोः संधिः प्रधानम् । तस्य नायिकागतत्वेनानुवाद्यत्वात् । उत्तरार्धगतस्मृत्यङ्गत्वाच्च । तस्माद्भावसंध्युपमालंकाराभ्यामुपस्कृता स्मृतिर्हापदगम्यः संतापोऽनुभावश्च विप्रलम्भमेवोपस्कुरुत इति तस्यैवात्र प्राधान्यम् ।
चाञ्चल्यवान् । धातूनामनेकार्थत्वात् । चाणूरो दैत्यः। तत्र धर्मयोर्मध्ये । वस्तुप्रतिवस्तुभाव इति । तत्र चूर्णनसंहारयोराश्रयभेदजभेदप्रत्ययस्तत्संबन्धिचाणूरजगन्मण्डलयोरभेदबुद्धिर्बहिरङ्गा नोदेतीति भावः । चाञ्चल्यवेगवत्त्वयोस्वाश्रयभेदाढ़ेदेऽपि एकनिमित्तकवेनाभेदमादाय साधारणतेति बोध्यम् । समासे इति । 'उपमानानि-' इति सूत्रेणेति भावः । अत एव न श्रौतीत्याह-प्रतीपेति । सकलवाक्यार्थस्य सकलवाक्यतात्पर्यविषयभूतस्य । शृङ्गारस्येत्यस्योपस्कारकतयेत्यत्रान्वयः । त्रासेति । गुरुजनभयमद्विलोकनपदबोध्ययोर्गुरुजनभयमद्विलोकनयोर्मध्ये व्याकुलखोदयेन द्वयोरपि