________________
रसगङ्गाधरः।
१५९
मालक्षितबुधाश्लेषं राकेन्दोमण्डलमिव विलसतीति तादृशराकेन्दुमण्डलनिरूपितसादृश्यप्रयोजकविलासाश्रयस्तादृशमाननमिति तात्पर्य तदा विपूकलसत्यर्थशोभाविशेष एव समानो धर्मः । यदि च तादृशमिन्दुमण्डलमिव यत्तादृशमाननं तद्विलसतीति तादृशसादृश्यावच्छिन्नमाननमुद्दिश्य विलासाश्रयत्वं विधेयतया विवक्ष्यते तदास्या लुप्तोपमात्वात्पद्ममिव मुखमित्यादाविवाह्लादकत्वादिधर्म उन्नेय इति वाच्यम् । उपमानोपमेयशोभयोरपि वस्तुतोऽसाधारणत्वात् । .
'कोमलातपशोणाभ्रसंध्याकालसहोदरः ।
कषायवसनो याति कुङ्कुमालेपनो यतिः ॥' इत्यादौ धर्मान्तरस्यापि प्रतिभानादसुन्दरत्वाच्च कोमलातपादीनामसाधारणत्वात्कथमुपमेति चेत् , अत्राहुः-उपमेयगतानामुपमानगतानां चासाधारणानामपि धर्माणां सादृश्यमूलेनाभेदाध्यवसायेन साधारणत्वकल्पनादुपमासिद्धिः । न च भ्रमात्मकेनाहार्याभेदबोधेन कथं नाम कुङ्कुमालेपकोमलातपादीनां वस्तुतो भिन्नानां साधारणत्वसिद्धयेऽत्यन्तमसन्नभेदः सेद्धं शक्नुयात् , भ्रमेणार्थसिद्धेरभावादिति वाच्यम् । प्रागुक्तेऽपि 'कोपोपमा भाति सुधांशाविव पावकः' इत्यादावुपमानोपमेययोरत्यन्तासत्यत्वेऽपि कल्पनामात्रतो यथा निष्पत्तिस्तथैव प्रकृते साधारणधर्मस्यापीति व्यक्तमुपपादयिष्यामः । अयमेव बिम्बप्रतिबिम्बभाव इति प्राचीनैरभिधीयते ।
दिति भावः । तादृशराकेन्दुमण्डलेति । तद्विशिष्टराकेन्द्रित्यर्थः । एवमग्रेऽपि । तथा वक्तुं तु युक्तम् । आये दूषणमाह-उपमानोपेति । द्वितीयरीत्योक्तप्रसिद्धोदाहरणे निर्वाहेऽप्यप्रसिद्धोदाहरणे दोषमासाद्य साधारणमाह-कोमलेति । कोमलातपलं शोणाभ्रलं च बहुव्रीहिणा संध्याकालविशेषणम् । अत एव कोमलातपादीनामिति वक्ष्यति । अभेदाध्यवसायेनेति । न चैकधर्मवत्त्वमिवोपमानवृत्तिधर्मसदृशधर्मवत्त्वमप्युपमाप्रयोजकमस्तु किममुना मेदाध्यवसायेनेति वाच्यम् । साधारणधर्मेणोपमानोपमेययोरभेदप्रतीतिकृतचमत्कारस्योपमायामिष्टस्य धर्मयोरमेदाध्यवसानं विनानुपपत्तेः । तथा चोक्तमलंकारसर्वखकृता-'भेदाभेदप्रधानोपमेतीति बोध्यम्' । प्रागुक्त इति । यत इत्यादिः । अयमेव सादृश्यमूलामेदाध्यवसाय एव । प्राचीनर्बिम्बप्रतिबिम्बभाव इत्यभिधीयत इत्यर्थः । एवं उक्तोदाहरणे उपमासिद्धिवत् । भगवतः कृष्णस्य । चञ्चन्