________________
१४८
काव्यमाला |
प्रत्ययप्रसङ्ग इति चेत्, `मैवम् । श्लेषस्थल इवात्राप्येकशब्दोपादानोत्थस्य व्यञ्जनस्योपायत्वाद्वैयञ्जनिकबोधस्य बाधबुद्ध्यप्रतिबध्यत्वाच्च । अथ चन्द्रतत्सदृशयोरेवैकपदोपात्तत्वाच्चन्द्रसदृशे चन्द्रताद्रूप्यस्य प्रत्ययो यथाकथंचिदस्तु, न तु मुखत्वविशिष्टे मुखे । अनुभवसिद्धश्च सर्वेषाम् 'व चन्द्रमसि स्थिते किमपरः शीतांशुरुज्जृम्भते ' इत्यादौ बिषये विषयिताद्रूप्यस्य प्रत्यय इति सत्यम् । स्वताद्रूप्यवद भेदबुद्ध्या खताद्रूप्यस्य सुबोधतया तस्मिन्नपि तस्य सिद्धेः" इत्याहुः । अन्ये तु – “चन्द्रादिपदेभ्यो लक्षणया चन्द्रसदृशत्वेनापि रूपेणोपस्थितानां मुखादीनां चन्द्रत्वेन रूपेणैव मुखादिपदोपस्थापितैः सहा भेदान्वयबोधो जायते । तत्तत्पदलक्षणाज्ञानस्य तत्तत्पदशक्यतावच्छेदकप्रकारकलक्ष्यान्वयबोधत्वावच्छिन्नं प्रति हेतुतायाः पदार्थोपस्थितिशाब्दबोधयोः समानाकारत्वस्यानुभवसाक्षिकवैलक्षण्यकलाक्षणिकबोधातिरिक्तविषयतायाश्च कल्पनात् । अत एव गङ्गायां घोष इत्यत्र तटत्वेनाप्युपस्थितस्य तटस्य गङ्गात्वेनान्वयबोधस्तत्प्रयोज्यः शैत्यपावनत्वादिप्रत्ययश्च संगच्छते । प्रकृते तु विषयिचन्द्रादिनिष्ठासाधारणगुणवत्त्वप्रत्ययः फलम् । नहि चन्द्रत्वप्रतीतिं विना मुखे चन्द्रत्वनियतगुणवत्त्वधीः शक्योपपादयितुम् । ताद्रूप्यपदेन तदसाधारणगुणवत्त्वमेव प्राचीनैरुक्तम् । इत्थं च स्वरूपसंवित्तिकृतः फलीभूतसंवि
यति - वैयञ्जनीति । एतेन मुखत्वविशिष्टमुखव्यवच्छेदः । तदेवाह - न त्विति । रूपान्तरेण मुखोपस्थितेः सत्त्वादाह - मुखत्वेति । इष्टापत्तिं खण्डयति - अनुभवेति । खताद्रूप्यवदिति । चन्द्रताद्रूप्यवत्सदृशाभेदेत्यर्थः । तस्मिन्विषये । तस्य ताद्रूप्यप्रत्ययस्य । केचिदित्यनेनारुचिः सूचिता । तद्वीजं तु स्वरूपसंवेदनकृतवैलक्षण्यस्यापि संभवेन तावत्पर्यन्तगमनं व्यर्थमिति । अत एव मतान्तरमाह - अन्ये त्विति । अपिर्मुखत्वामुखत्वसमुच्चायकः । रूपेणैवेत्यस्याभेदान्वयेत्यत्रान्वयः । उपस्थापितैरित्यस्य मुखला - मुखत्वादिभिरिति शेषः । ननु लक्षणाज्ञानकार्यतावच्छेदकं प्राचीनसंमतं प्रागुक्तमि कथं तया बोधोऽत आह— तत्तत्पदेति । नन्वेवमपि तदुपस्थितिबोधयोः समानप्रकारत्वनियमभङ्गोऽत आह— पदार्थोपेति । कल्पनाया आवश्यकतामाह - अत एवेति । अपना समीपत्वसमुच्चयः । ननु प्रकृते फलाभावोऽत आह-प्रकृते त्विति । नन्वेवं प्राचीनविरोधः । ताद्रूप्यसंवेदनस्य फलवस्य तैरुक्तत्वादत आह-तद्रूप्येति । तदसाधारणेति । विजातीयाह्लादकत्वेत्यर्थः । इत्थं चेति । रूपके तथा बोधे तथा