________________
रसगङ्गाधरः ।
१४९
तिकृतश्चोपमातो रूपकस्य भेदः स्फुट एव" इति वदन्ति । अपरे तु “भेदकरम्बितं सादृश्यमुपमाजीवातुभूतम्, भेदाकरम्बितं च गौणसारोपलक्षणाया इति स्फुटे भेदे कृतं फलकृतवैलक्षण्यपर्यन्तानुधावनेन । पक्षे - ऽस्मिन्भेदगर्भसादृश्यप्रतिपत्तेस्ताद्रूप्यप्रतीतिः कथं नाम फलं भवितुमीष्टे, इत्यनुपपत्तिं परिहर्तुमायासोऽपि नापततीत्यपरमनुकूलम्" इत्यप्याहुः । तदित्थं प्राचामाशयो मतभेदेन वर्णितः ।
नव्यास्तु — " मुखं चन्द्रः, वाहीको गौः" इत्यादौ चन्द्रादीनां मुखादिभिः सह संभवति लक्षणां विनैवाभेदसंसर्गेणान्वयबोधः । बाघनिश्चयप्रतिबध्यतावच्छेदक कोटावनाहार्यत्वस्येव शाब्दान्यत्वस्यापि निवेश्यत्वात् । अत एव ‘अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि' इति प्राचां प्रवादोऽपि संगच्छते । न च ' वह्निना सिञ्चति' इत्यतो वाक्यादपि शाब्दबोधापत्तिः । योग्यताज्ञानविरहात् । मुखं चन्द्रः, गौर्वाहीकः, इत्यादौ त्विष्टचमत्कारप्रयोजकताज्ञानाधीनाया इच्छायाः सत्त्वादाहार्ययोग्यताज्ञानसाम्राज्यम् । अत एव शाब्दबोधे योग्यताज्ञानस्य कारणत्वोक्तिः प्राचां संगच्छते। आहार्य एव वा भेदान्वयबोधोऽस्तु । मास्तु बाधबुद्धिप्रतिबध्यतावच्छेदककोटौ शाब्दान्यत्वम् । मा चास्तु शाब्दबुद्धी योग्य - ताज्ञानस्य कारणत्वम् । आहार्यं प्रात्यक्षिकमेवेति नियमश्च अवश्यं च मुख
1
फलेऽङ्गीक्रियमाणे चेत्यर्थः । उपमातो रूपकस्येति । उपमायां तथा बोधाभावात्सा - धारणस्यैव गुणस्य प्रतीतेश्चेति भावः । अत्रापि पक्षेऽरुचिं सूचयन्मतान्तरमाह - अपरे त्विति । करम्बितं विशिष्टम् । सादृश्यस्य धर्मरूपत्वेऽतिरिक्तले च भेदागर्भत्वादिति भावः । जीवातुर्जीवनौषधम् । स्फुटे भेद इति । उपमायां चन्द्रभिन्नं चन्द्रसदृशमिति बोधः । रूपके तु चन्द्रसदृशमित्येवेति भावः । पक्षेऽस्मिन्नित्यस्यापर मित्यनेनान्वयः । ननु मुखं न चन्द्र इत्यादिबाधज्ञानसत्त्वेन कथं तथा बोधोऽत आह-बाधेति । अनाहार्येति । तत्सत्त्वेऽपीच्छारूपात्तेजकवशादाहार्यस्य जायमानत्वादिति भावः । न चेत्यस्यैवमिति शेषः । शाब्दान्यत्वनिवेशे इति तदर्थः । नन्वेवं प्रकृतेऽपि योग्यताज्ञानाभावात्कथं बोधोऽत आह- मुखमिति । अत एवाहार्य योग्यताज्ञानसत्त्वादेव । शाब्दबोधे शाब्दबोधत्वावच्छिन्ने । लाघवान्मतान्तरमाह - आहार्य एव वेति । मा चास्त्विति । वह्निना सिञ्चतीत्यादावप्याहार्यज्ञानस्येष्टत्वादिति भावः । अस्योभयत्रान्वयः । उक्तं द्रढयति - अवश्यं चेत्यादिना । अभेदेत्यस्याहार्येत्यादिः । एवव्यवच्छेद्यमाह -