________________
रसगङ्गाधरः ।
१४७ मेदसंसर्गेण मुखादिशब्दोपस्थापितैर्मुखत्वादिविशिष्टैर्मुखादिभिरन्वयः । सादृश्यरूपधर्मलक्षणायां तु तेन सह मुखादीनामन्वयो न स्यात् । नामा - र्थयोरभेदातिरिक्तसंसर्गेण विशेष्यविशेषणभावस्यानुपपत्तेः । नन्वेवं बोघावैलक्षण्याच्चन्द्रसदृशं मुखमित्युपमातो मुखं चन्द्र इति रूपकस्य कथं भेदः । न च सदृशविशेषणचन्द्र संबन्धिसंबन्धाभ्यामिति वाच्यम् । बोधस्य वैलक्षण्यमात्रेण पृथगलंकारताया असिद्धेः । अन्यथा मुखं चन्द्र इवेत्यत्र चन्द्रसदृशमित्येतद्गतात्पृथगलंकारतापत्तिरिति चेत्, अत्र केचित् — “रूपकस्योपमातः स्वरूपसंवेदनांशमादाया वैलक्षण्येऽपि लक्षणाफलीभूतताद्रूप्य संवेदनमादाय वैलक्षण्यं निर्बाधम् । ताद्र्प्यसंवेदनं च विये मुखादौ विषयितावच्छेदकस्य चन्द्रत्वादेः संप्रत्ययः । ननु लक्षणाप्रयोज्यादपि तत्सदृशबोधात्कथं नाम ताद्रूप्यप्रत्ययः स्यात् । उपायस्याभावाद्भेदज्ञानेन प्रतिबन्धाच्च । अन्यथा चन्द्रसदृशं मुखमित्यत्रापि ताद्रूप्य -
ननु गौरवात्सदृशरूपधर्मिलक्षणा न युक्ता अत आह—- सादृश्येति । तेन सादृश्येन । न स्यात्कथमपि न स्यात् । अतिरिक्तेति । अभेदेन तु बाधान्नेति भावः । एवं सति धर्मिलक्षणयाऽभेदेनान्वयाङ्गीकारे सति । धर्मलक्षणया व्युत्पत्तिसंकोचमङ्गीकृत्य भेदान्वये तु स्याद्वैलक्षण्यमिति भावः । बोधावैलेति । उपमायामप्यभेदेनैव बोधादिति भावः । सदृशविशेषणचन्द्र संबन्धिसंबन्धाभ्यामिति । सदृशे विशेषणभूतो यश्चन्द्रस्तत्संबन्धतदसंबन्धाभ्यां संसर्गतया भासमानाभ्यामित्यर्थः । बोधवैलक्षण्यमिति शेषः । मुखं चन्द्र इत्यत्र चन्द्रपदस्य तत्सदृशे लाक्षणिकत्वेन तस्यैकपदार्थत्वात्संसर्गस्यापि लक्ष्यघटकतया चन्द्रसदृशयोः संबन्धस्य संसर्गविधया भानम् । चन्द्रसदृशमित्यत्र तु तयो - र्भिन्नपदार्थत्वेन संसर्गस्य तत्त्वेन भानमावश्यकमेवेति भावः । अन्यथा बोधवैलक्षण्यमात्रेणालंकारभेदाङ्गीकारे । मुखं चन्द्र इवेत्यत्रेति । इत्यस्यामुपमायामित्यर्थः । इवस्य द्योतकत्वेन रूपकरीत्या संसर्गस्य तत्त्वेनाभानात् । तादृश्यवाचकत्वेऽपि तेन सह प्रतियोगित्वं संबन्धः । चन्द्रसदृशमित्यत्र तु तत्प्रतियोगिकाश्रये लाक्षणिकतया अभेदस्य संबन्धत्वमिति स्पष्टं वैलक्षण्यम् । सदृशवाचकत्वेऽपि स्वप्रतियोगि काश्रयत्वम् । चन्द्र इवेत्यत्र संबन्धः, तत्र तु स एवेति स्पष्ट भेद इति भावः एतद्गतादिति । उपमालं - कारादिति शेषः । ताद्रूप्यसंवेदनमिति । ताद्रूप्यमात्र संवेदनमित्यर्थः । एतेन भेदामेदोभयप्रधानोपमा असाधारण रूपेणोपमानोपमेययोर्भेदः । साधारणरूपेण वभेद इत्यलं - कारसर्वस्वकृद्भन्थविरोध इत्यपास्तम् । उपायस्येति शक्तिलक्षणान्यतरस्येत्यर्थः । तत्रापि लक्षणास्तु, अत आह— भेदेति । अन्यथा तस्याप्रतिबन्धकत्वे । इत्यत्रापीति । उपमायामपि । ताद्रूष्येति । ताद्रूप्यमात्रेत्यर्थः । एवमुपायमुक्त्वा द्वितीयहेतुं खण्ड
1