________________
१४६
काव्यमाला ।
र्थान्वयानुपपत्तेः । तन्त्रत्वे तु 'काकेभ्यो दधि रक्ष्यताम्' इत्यत्र लक्षणोत्थानं न स्यात् । ‘गङ्गायां घोष:' इत्यत्र सामीप्यम्, 'मुखचन्द्र:' इत्यादौ सादृश्यं, व्यतिरेकलक्षणायां विरोधः । ' आयुर्धृतम्' इत्यादौ कारणत्वादयश्च संबन्धा यथायोगं लक्षणाशरीराणि ।
इयं तावद्विविधा, निरूढा प्रयोजनवती च । तत्रापि द्वितीया द्विविधा, गौणी शुद्धा च । तत्राद्या सारोपा, साध्यवसाना चेति द्विविधा | अन्त्या चतुर्विधा – जहत्स्वार्था, अजहत्स्वार्था, सारोपा, साध्यवसाना चेति प्रयोजनवती षड्विधा संपद्यते । तत्र निरूढलक्षणाया अनुकूल प्रतिकूलानुलोमप्रतिलोमलावण्यादय उदाहरणम् । नीलादयश्च धर्मस्य । 'अयमनुकूलः' इत्यादौ मुख्यार्थस्य कूलानुगतत्वादेर्बाधात् । अनादिप्रयोगप्रवाहवश | देकवस्तुप्रवणत्वात्मना कूलानुगतादिरूपशक्यस्य सादृश्येन संबन्धेनानुकूलादिशब्दैरनुगुणादयो लक्ष्यन्ते । एवं नीलादिपदानां लाघवाद्गुणगतजातेरेव शक्यतावच्छेदकतया गुणद्रव्ययोः 'नीलो घटः' इत्यादौ सामानाधिकरण्येनान्वयस्यानुपपत्तेः । समवायात्मना गुणरूपशक्यस्य संबन्धेन नीलादिशब्दैर्गुणिनो लक्ष्यन्ते । तत्राद्यवर्गे साहश्यसंबन्धेन द्वितीयवर्गे च तदितरसंबन्धेन लक्षणायाः प्रवृत्तेः । निरूढायामपि गौणीत्वशुद्धत्वाभ्यां द्वैविध्यमामनन्ति । विषयविषयिणोः पृथङ्गनिर्दिष्टयोरभेद् आरोपः । अपृथङ्गनिर्दिष्टे विषये विषय्य भेदोऽध्यवसानम् । तत्राद्येन सहिता सारोपा। द्वितीयेन तु साध्यवसाना । उदाहरणानि च 'मुखं चन्द्रः' इत्यादीनि गौण्याः सारोपायाः । 'पुरेऽस्मिन्सौधशिखरे चन्द्रराजी विराजते' इत्यादीनि च तस्याः साध्यवसानायाः । अत्राद्यायां विषयिप्रतिपादकैश्चन्द्रादिशब्दैर्लक्षणयोपस्थापितानां चन्द्रादिसदृशानाम
त्यर्थः । तन्त्रं कारणम् । व्यतिरेकलक्षणेति । ' उपकृतं बहु नाम -' इत्यादौ । यथायोगं यथासंभवम् । लक्षणाशरीराणीति । लक्षाणाज्ञानकार्यतावच्छेदकं च तादृशशक्यसंबन्धप्रकारकलक्ष्य विशेष्यकशाब्दबुद्धित्वमिति प्राचीनालंकारिकमतम् । तदनन्तरं व्यञ्जनया तादृशशक्यतावच्छेदकप्रकार कलक्ष्यबोध इति च । एकप्रवणलं तदेकसक्तत्वम् । विषयविषयिणोरिति । उपमेयोपमानयोरित्यर्थः । आद्येनारोपेण । द्वितीयेन त्विति । अध्यवसानेनेत्यर्थः । सहितेत्यस्यानुषङ्गः । तस्या इति । गौण्या इत्यर्थः ।