________________
रसगङ्गाधरः।
१४५ गुणः शुक्लादिः शुक्लादिपदानामभिधेयः । क्रिया चलनादिशब्दानाम् । शुक्लादीनां चलनादीनां च प्रतिव्यक्तिभेददर्शनादानन्त्यव्यभिचाराभ्यां व्यक्तिशक्तिवाददोषाभ्यामिहापि कलुषीकरणमिति चेत् , तेषां लाघवात्प्रत्यभिज्ञाबलाच्चैकताया अभ्युपगमात् । तदुक्तम्-'गुणक्रियायदृच्छानां वस्तुत एकरूपाणामाश्रयभेदाढ़ेद इव लक्ष्यते' इति । तथा च भेदप्रतीतिभ्रम एवेति भावः । इदमुपलक्षणम् । उत्पत्तिविनाशप्रतीतिरपि तथैव । वर्णनित्यतावादे गकाराद्युत्पत्तिविनाशप्रतीतेभ्रमत्वस्य खीकारात् । यादृच्छिकस्तु वक्रा खेच्छया डित्थादिशब्दानां प्रवृत्तिनिमित्तत्वे संनिवेशितो धर्मः । स च 'परम्परया व्यक्तिगतश्चरमवर्णाभिव्यङ्ग्योऽखण्डः स्फोटः' इत्येके । 'आनुपूर्व्यवच्छिन्नो वर्णसमुदायः' इत्यपरे । 'केवला व्यक्तिरेव' इतीतरे । तत्राद्यमतद्वये विशेषणज्ञानाद्विशिष्टप्रत्ययः । तृतीयमते च निर्विकल्पकात्मकः प्रत्ययः । तदित्थं चतुष्टयी शब्दानां प्रवृत्तिरिति दर्शनं व्यवस्थितम् । सर्वेषां शब्दानां जातिरेवार्थः । गुणक्रियाशब्दानां गुणक्रियागतायाः, यदृच्छाशब्दानां च बालवृद्धशुकाबूदी. रिततत्तच्छब्दवृत्तेस्तत्तत्समयभिन्नार्थवृत्तेर्वा जातेरेवाभिधेयतासंभवात् । इति जातिशक्तिदर्शनम् ।
अथ केयं लक्षणा, यन्मूलश्चरमं निरूपितो ध्वनिः । उच्यतेशक्यसंबन्धो लक्षणा ॥ तस्याश्चार्थोपस्थापकत्वे मुख्यार्थतावच्छेदके तात्पर्यविषयान्वयितावच्छेदकताया अभावो न तन्त्रम् । शक्यतावच्छेदकरूपेण लक्ष्यभानस्य खीकारात् । किं तु तात्पर्यविषयान्वये मुख्यार्थतावच्छेदकरूपेण मुख्यार्थप्रतियोगिकताया अभावो रूढिप्रयोजनयोरन्यतरच तन्त्रम् । मुख्या
प्रतियोगितावच्छेदकविशिष्टज्ञानस्य प्रतियोगितावच्छेदकज्ञानस्य वा हेतुलादित्याहुः । शङ्कते–शुक्लादीनामिति । इहापि गुणक्रिययोरभिधेयत्वेऽपि । चेदित्यस्य तत्रेति शेषः । एकताया इति । तथा च नित्यत्वमपि सिद्धमिति भावः । तथैव भ्रम एव । व्यक्तिगतोऽर्थव्यक्तिगतः । अतिरिक्तस्फोटाङ्गीकारे फलाभावादाहआनुपूयति । वर्णानां जन्यत्वेन समुदायासंभवादाह-केवलेति । दर्शनं मतम् । मतान्तरमाह-सर्वेषामिति । जातिगुणक्रियायदृच्छाशब्दानामित्यर्थः । शब्दवृत्तेः परम्परया तन्निष्ठखकल्पने गौरवादाह-तत्तत्समयेति । बालवयुवत्ववृद्धत्वरूपे
१३ रस०