________________
१११
काव्यमाला ।
शब्दस्य यस्मिन्नर्थेऽस्ति तस्य सोऽर्थोऽभिधेयः । स च जातिगुणक्रियायादृच्छिकात्मकः । तत्र जाति!त्वादिः संस्थानविशेषाभिव्यङ्ग्या प्रत्यक्षसिद्धा गवादिपदानामभिधेया । अनुमानसिद्धा च घ्राणरसनत्वादिर्घाणरसनादिपदानामानन्त्यात्, व्यभिचाराच्च व्यक्तीनामभिधेयताया अकल्पनात् । न च ज्ञातगोत्वादिरूपया गोत्वादिज्ञानरूपया वा प्रत्यासत्त्या प्रत्यक्षेण परिकलितासु सकलतदीयव्यक्तिष्वभिधायाः कल्पने नास्ति दोष इति वाच्यम् । सामान्यप्रत्यासत्तेर्निराकरणात् । गौरवदोषस्यानुद्धाराच्च । एतेन शक्तिग्रहपदार्थोपस्थितिशाब्दबोधानां समानप्रकारकतयैव हेतुहेतुमद्भावादगृहीतसंकेतानामपि व्यक्तिविशेषाणामन्वयबोधविषयताया उपपादनेऽपि न निस्तारः । व्यक्तीनां प्रत्ययस्त्वाक्षेपाल्लक्षणया वेत्यन्यदेतत् । अयं च जातिरूपः शब्दार्थप्राणद इत्युच्यते । प्राणं व्यवहारयोग्यतां ददाति संपादयतीति व्युत्पत्तेः । तदुक्तम्-'गौः खरूपेण न गौ प्यगौः, गोत्वाभिसंबन्धाद्गौः' इति । अस्यार्थः-गौः सानादिमान्धर्मी स्वरूपेण अज्ञातगोत्वकेन धर्मिखरूपमात्रेण न गौः न गोव्यवहारनिर्वाहकः । नाप्यगौः नापि गोभिन्न इति व्यवहारस्य निर्वाहकः । तथा सति दूरादनभिव्यक्तसंस्थानतया गोत्वाग्रहदशायां गवि गौरिति गोभिन्न इति वा व्यवहारः स्यात् । खरूपस्याविशेषाद्धटे गौरिति गवि चागौरिति वा व्यवहारः स्यादिति भावः । गोत्वाभिसंबन्धाद्गोत्ववत्तया ज्ञानागौर्गोशब्दव्यवहार्य इति ।
योगेति । प्रत्यक्षेति । गवादीनां प्रत्यक्षलादिति भावः । अनुमानेति । घ्राणेन्द्रियादीनामतीन्द्रियवादिति भावः । आनन्त्यादिति । अनन्तशक्तिकल्पनजगौरवादित्यर्थः । ज्ञायमानं सामान्यं प्रत्यासत्तिरितिमतेनाह-शातगोत्वादीति । सामान्यज्ञानं प्रत्यासत्तिरितिमतेनाह-गोत्वादिज्ञानेति । प्रत्यक्षेण अलौकिकेन । गौरवदोषस्येति । द्वितीयदोषोद्धारेऽप्याद्यदोषस्येत्यर्थः । एतेन गौरवदोषानुद्धारेण । एवकारेण समान विशेष्यकत्वादिव्यवच्छेदः । तदुक्तमिति । प्रकाशकृतेति शेषः । एवमग्रेऽपि । तथा सति धर्मिस्वरूपमात्रेण व्यवहारनिर्वाहकलाङ्गीकारे सति । गौरिति व्यवहारे इष्टापत्त्या आह-गोभिन्न इतीति । अविशेषादिति । व्यक्तिखरूपाणां खतोऽव्यावृत्तवादिति भावः । गौरित्यत्र विशेषणज्ञानविधया तस्योपयोगेऽपि नाप्यगौरित्यनेन व्यवहारमात्रं धर्मज्ञानसाध्यमित्युच्यते । अभावज्ञानेऽपि