________________
रसगङ्गाधरः ।
१४३ कयोरर्थयोरुप स्थितिसंभवेन द्वितीयपदप्रयोगस्य नैरर्थक्यापत्तेश्व इति चेत्, अत्राहुः – 'एकपदोपात्तत्वादन्तरङ्गाकाङ्क्षावशेन प्रथमं योगार्थरूव्यर्थयोरन्वये सति समुल्लसितस्य विशिष्टार्थस्यैव पदान्तरार्थेनान्वयः । न तु तयोरेव विशकलितयोरिति यद्यपि न्याय सिद्धोऽर्थः, तथापि शक्त्यार्थस्य प्रतिपादने स्यादेवम् । लक्षणायां तु योगरूढेन योगार्थमात्रप्रतिपादनेन न किंचिद्वाधकमस्ति । नापि द्वितीयपदप्रयोगस्य नैरर्थक्यम् । तथा सति रूढ्यर्थबोधनेन गतार्थेन योगरूढशब्देन प्रतिपाद्यमानस्य योगार्थस्य पङ्कजाक्षीत्यादाविव नान्तरीयकत्वशङ्कया कुर्वद्रूपताया अपहृतौ प्रकृतोपयोग्य तिशयविशेषव्यञ्जनस्य पाक्षिकत्वापत्तेः । द्वितीयपदयोगे तु तेनैव रूढ्यर्थप्रतिपादने सिद्धे योगरूढपदप्रतिपाद्यस्य योगार्थस्य नान्तरीयकत्वशङ्काया अयोगात्कुर्वद्रूपत्वेन व्यङ्ग्य विशेषव्यअकत्वं नियमेन सिद्ध्यति । एषा पदद्वयोपादानस्थले गतिरुक्ता । यत्र तु 'पुष्पधन्वा विजयते जगत्त्वत्करुणावशात्' इत्यादावेकेनैव पदेन रूढ्यर्थोपस्थितियगार्थद्वारा निःसारत्वाद्यवगमश्च भवति, तत्र कविकृतमन्मथरूढपदान्तरानुपादानपूर्वकपुष्पधन्वपदोपादानप्रतिसंधानेन तदीययोगार्थे कुर्वद्रूपताधानं बोध्यम् । तदित्थं द्वितीयपदस्योपादानेऽनुपादाने वा न क्षतिः । एवं आत्यन्तर विशिष्टवाचकपद समभिव्याहारेऽपि । ' दिशि दिशि जलजानि सन्ति कुमुदानि' इत्यत्रापि जलजादिपदानां लक्षणया योगार्थमात्रबोधकत्वम् । योगशक्त्युल्ला सितस्य तु तादृशार्थस्य रूढ्यथपश्लिष्टत्वेन स्वातंत्र्येण कुमुदादावन्वयायोगात् । इत्थमभिधा निरूपिता ।
अनया यः शब्दो यमर्थं बोधयति स तस्य वाचकः । इयं च यस्य
1
वेति । आवश्यकयोरिति । पदद्वयोल्लेखेनो कातिशयव्यञ्जनार्थमिति भावः । एकपदोपेति । अन्तरङ्गत्वादौ हेतुरयम् । तयोः योगार्थरूढ्यर्थयोः । विशकलितेति । पदान्तरार्थेनान्वय इत्यस्यानुषङ्गः । एवं योगार्थमात्र बोधकत्वानुपपादनमाद्यदोषमुद्धृत्य द्वितीयदोषमुद्धरति - नापीति । तथा सति द्वितीयपदानुपादाने सति । नान्तरीयकत्वेति । मुख्यतात्पर्याविषयत्वेत्यर्थः । शङ्काया अभावे त्विष्टार्थसिद्धिरत आह- पाक्षिकेति । अत एवाग्रे नियमेनेति वक्ष्यति । जगत् कर्म । कविकृतत्वमुपादानेऽन्वेति । प्रतिसंधानेन श्रोतुरिति शेषः । इत्यत्रापि इत्यादावपि । शक्त्या न निर्वाह इत्याह