________________
१४२
काव्यमाला। योरायद्वितीयभेदयोः प्रसक्तिरिति तु न शक्यम् । समुदायावयवशक्तिवेद्ययोरर्थयोरनन्वयेन तादृशशक्त्योः कैवल्यस्य साम्राज्यात् । इदमेव हि केवलत्वमिह विवक्षितम् , यदन्वयायोग्यार्थबोधकत्वम् । संकरस्त्वन्वययोग्यार्थबोधकयोरेवेति न तस्यात्र प्रसक्तिः' इत्याहुः । अन्ये तु—'अश्वकर्णादिशब्देषु नाभिधायाः प्रथमद्वितीययोर्विधयोः प्रसक्तिः । कैवल्यविरहात् । परंतु संकरस्य द्वौ भेदौ-योगरूढियोगिकरूढिश्चेति । तत्राद्यस्योदाहरणं पङ्कजादिशब्दाः। द्वितीयस्य त्वश्वकर्णादयः' इत्याहुः । 'चतुर्थ एवायमभिधाया भेदः' इत्यप्यन्ये । 'अखण्डा एव हि शब्दाः। तत्र समासेषु पदानां कृत्तद्धिततिङन्तेषु च प्रकृतिप्रत्ययानां विभागः काल्पनिक एवेति कुत्रास्ति योगशक्तिः । विशिष्टस्य विशिष्टार्थे रूढेरेवाभ्युपगमात्' इत्यपि वदन्ति ।
अथ
'गीष्पतिरप्याङ्गिरसो गदितुं ते गुणगणान्सगर्वो न ।
इन्द्रः सहस्रनयनोऽप्यद्भुतरूपं परिच्छेत्तुम् ॥' इत्यादौ रूढ्यर्थमादाय पुनरुक्त्यापत्तिः । न चैवंविधपदद्वयसमभिव्याहारस्थले योगरूढपदस्यावयवार्थमात्रबोधकत्वम् । तावन्मात्रस्यैव प्रकृतोपयोग्यतिशयविशेषसमर्पकत्वात्, इति वाच्यम् । एवमपि योगरूढपदस्य रूढिशक्तेरनियन्त्रणेन योगार्थमात्रप्रतिपादकताया अनुपपादनादुक्तदोषस्यानुवृत्तेः । एकेनैव पदेन योगार्थरूढ्यर्थयोरुभयोरप्यावश्य
योगबोध्यार्थान्क्यायोग्यार्थप्रतिपादकवं रूढेः केवललम् । रूढिबोध्यार्थान्वयायोग्याथप्रतिपादकलं योगस्य केवलत्वम् । परस्परप्रतिपाद्ययोरन्वययोग्यले संकर इति फलितम् । बोधकयोरेवेतीति । भेदयोरित्यर्थः । तादृशकैवल्यविवक्षायां मानाभावादाह-अन्ये विति । संकरस्य योगरूढिशब्देनैव प्रसिद्धमतान्तरमाहचतुर्थ एवेति । एवेनाभिधापदसंबद्धन संकरभेदनिरासः । तथा चाभिधा चतुर्विधेति भावः । सिद्धान्तमाह-अखण्डा इति । हिस्वर्थे । तत्र अखण्डानां मध्ये । तथा चाभिधाया रूढ्याख्य एक एव भेद इति भावः । अत्र शङ्कते-अथेति । गीष्पतिरिति । राजवर्णनमिदम् । अतिशयेति । राजनिष्ठगुणाद्यतिशयेत्यर्थः । अनियन्त्रणेन असंकोचेन । प्रकरणादिसंकोचकाभावादिति भावः । प्रकरणादिसत्त्वे आह-एकेन