________________
१३०
काव्यमाला।
च्यम् । उदासीने वक्तरि तत्त्वार्थकथनपरस्यास्य पद्यस्य वक्तगतरतिव्यञ्जकत्वासंगतः, गुणीभूतस्यार्थस्य वाच्यार्थापेक्षया प्रधानतया ध्वनिव्यपदेशहेतुतायाः प्राचीनैः स्वीकाराच्च । अन्यथा
'निरुपादानसंभारमभित्तावेव तन्वते ।
जगचित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने ।' इत्यत्र व्यतिरेकध्वनित्वं तैरुक्तमसंगतं स्यात् । व्यतिरेकस्य भगवद्विषयकरतिभावाङ्गताया अनुभवसिद्धत्वात् । शब्दशक्तिमूलवस्तुध्वनिर्यथा- .
'राज्ञो मत्प्रतिकूलान्मे महद्भयमुपस्थितम् ।
बाले वारय पान्थस्य वासदानविधानतः ॥ - अत्रोपभोगं देहीति वस्तु राजपदशक्तिमूलानुरणनविषयः । राजपदाचन्द्रोपस्थितावेव चन्द्रजनितभयवारणकारणत्वेनोपभोगस्याभिव्यक्तेः । न चात्र नृपचन्द्रयोरुपमानोपमेयभावः, भेदापोहरूपं रूपकं वा तथास्त्विति वाच्यम् । इह नृपरूपस्यार्थस्य चन्द्ररूपार्थगोपनमात्रार्थमुपात्तत्वेन युगपदुल्लसितोपमानोपमेयकयोरुपमारूपकयोस्तात्पर्यविषयताया अयोगात् । न चासंसृष्टार्थद्वयबोधने वाक्यभेद इति वाच्यम् । तुल्यकक्षतया द्वयोरसंसृष्टयोरर्थयोः प्रतिपिपादयिषितत्व एव तस्याभ्युपगमात् । इह त्वाच्छादकप्रतीतिसमये आच्छाद्याप्रतीतिः, आच्छाद्यप्रतीतौ चाच्छादकन्यग्भाव एवेति नास्ति तुल्यकक्षता । शेषः । उदासीने । रतिरोषोभयानाविष्टे सतीति शेषः । अन्यथा तथानङ्गीकारे । निरुपेति । उपादानसंभार उपकरणसमूहस्तूलिकादिकं तदहितं यथा स्यात्तथा । अभित्तावेव शून्य एव चित्रं नानाकारं जगत्तन्वते तस्मै अनिर्वचनीयखरूपाय, कला चन्द्रस्य षोडशो भागस्तेन श्लाघ्याय शूलिने महादेवाय नमः । पक्षे चित्रमालेख्यम् । कला आलेख्यक्रिया कौशलं च । तैः प्राचीनः । राज्ञ इति । हे बाले, वं मत्प्रतिकूलादाज्ञः सकाशादुपस्थितं महत्पान्थस्य मम भयं वासदानविधानतो वारयेत्यन्वयः। वासश्च दानं चेत्यर्थः । मेदापोहेति। अमेदेत्यर्थः । तथास्तु अनुरणनविषयोऽस्तु । तथा च तादृशालंकारध्वनेरेवोदाहरणम् , न वस्तुवनेरिति भावः । युगपदुल्लसिते उपमानोपमेये ययोस्तयोरित्यर्थः । तस्य वाक्यभेदस्य । आच्छादकेति । नृपरूपार्थेत्यर्थः । आच्छायेति । चन्द्ररूपार्थेत्यर्थः । शक्तिनियमेनेति भावः । अत्र बाले इति पदेन व्यङ्ग्यस्य वाच्यादुपमानताकर