________________
रसगङ्गाधरः।
ननु 'मृणालवलयादि दवदहनराशिः' इत्यत्र विरोधाभासस्य कथं वाच्यालंकारत्वम् । विरोधांशस्य शब्दवाच्यताविरहेण व्यङ्ग्यताया एवाभ्युपगन्तव्यत्वात् । न च विरोधविशिष्टाभेदस्य संसर्गत्वाद्वाच्यार्थबोधविषयतया विरोधस्य वाच्यत्वमिति वाच्यम् । विरोधाभेदयोः परस्परविरुद्धत्वेनैककाला: वच्छेदेनैकसंसर्गत्वस्यानुपपत्तेः । नानार्थयोरभेदस्यैव संसर्गतया विरोधस्यापि संसर्गत्वे मानाभावाच्च । पर्यन्ते दवदहनराशिपदस्य सदृशलाक्षणिकतया विरोधांशस्य तिरोधानाच्च । मैवम् । उक्तपद्यस्य विरोधोदाहरणतामात्रे तात्पर्यात् । व्यङ्ग्यत्वेऽपि तथात्वस्यानपायात् । वाच्यविरोधोदाहरणतायां त्वपिरन्तर्भाव्यः । केचित्त'विरोधांशस्य व्यङ्ग्यत्वेऽपि विरोधिद्वयस्य वाच्यतामात्रेण विरोधाभासस्य वाच्यालंकारव्यपदेशोपपत्तिः। इत्थमेव चांशान्तरस्य व्यङ्ग्यत्वेऽप्येकांशमादाय समासोक्त्यादीनामपि वाच्यालंकारव्यपदेशः' इत्याहुः। यथा वा_ 'कृष्णपक्षाधिकरुचिः सदासंपूर्णमण्डलः ।
भूयोऽयं निष्कलङ्कात्मा मोदते वसुधातले ॥' अत्र भगवत्पक्षाधिकप्रीत्यादिलक्षणे प्रकृतभूपोपयोगित्वात्प्रकृतेऽर्थे शक्त्या प्रतीतिपथमवतीर्णे द्वितीयोऽर्थोऽप्रकृतो वैधात्मा तत्प्रयुक्तो व्यतिरेकश्च । न चात्र व्यतिरेकस्य कविगतराजविषयकरतिभावोत्कर्षकतया गुणीभूतस्य कथं ध्वनिव्यपदेशहेतुत्वम् , प्रधानस्यैव ध्वनिव्यपदेशहेतुत्वादिति वा
ननु तादात्म्यवदुपपत्तिः स्यादत आह-नानार्थयोरिति । संसर्गले तद्घटकले । तादात्म्यस्य संसर्गवं तु तत्रान्तरे प्रसिद्धमिति भावः । ननु प्रतीत्यन्यथानुपपत्तिरेव मानमत आह-पर्यन्त इति । पर्यवसान इत्यर्थः । मात्रपदेन वाच्यत्वनिरासः । अन्तर्भाव्यः मृणालेत्यादौ । शब्दशक्तिमूलालंकारान्तरध्वनिमुदाहरति-यथा वेति । भगवत्पक्षेऽधिका प्रीतियेस्य । सद्भिरा समन्तात्परिपूर्ण मण्डलं यस्य । निष्कलङ्कः पवित्र आत्मा यस्य सोऽयं भूपो भुवि मोदत इति प्रकृतोऽर्थः । कृष्णपक्षेऽसितपक्षेऽधिकरुचिः । सदा सर्वकाले संपूर्णमण्डलः । निष्कलङ्कः कलङ्कशून्य आत्मा यस्य सोऽयं भुवि मोदत इति चन्द्रवैधात्मा प्रकृतोऽर्थः । यद्वा कृष्णपक्षे पापकर्मण्यधिकरुचिः । सदा सं (१) यथा तथा पूर्ण मण्डलं यस्य । निष्कलकोऽयन्तकलङ्क आत्मा यस्य सोऽयमित्यप्रकृतोऽर्थः । तत्प्रेति । अप्रकृतार्थप्रयुक्तव्यतिरेकालंकार इत्यर्थः । व्यज्यत इति