________________
१२८
काव्यमाला |
तेरपि ध्वनिव्यपदेश्यत्वापत्तेः । अन्यच्च — श्लेषे हि श्लेषभित्तिकम मैदाध्यवसानं द्वयोरर्थयोरिति सकलालंकारिकनिबद्धम्, अनुभवसिद्धं च । तत्र मूलान्वेषणे विधीयमाने एकपदोपात्तत्वान्न शक्यते मूलमन्यन्निर्वक्तुम् । एकपदोपात्तो ह्यनेकोऽप्यर्थोऽभिन्नतयैव भासते । इत्थं च 'उल्लास्य कालकरवाल–' इत्यादावप्येकपदोपात्ततया द्वयोरर्थयोरभेदाध्यवसानस्य युक्तत्वेनाभेदस्यैव व्यङ्ग्यत्वमुचितम्, नोपमायाः । श्लेषे द्वयोरर्थयोर्वाच्यत्वम्, एककालत्वं च । इह त्वेकस्य वाच्यत्वम्, अपरस्य व्यङ्ग्यत्वम्, भिन्नकालत्वं चेति । एतावन्मात्रेणैवैकपदोपात्तत्वप्रयुक्तम भेदाध्यवसानं न शक्यं त्यक्तम् । व्यङ्ग्यताया भिन्नकालत्वस्य चाभेदप्रतिपत्तावबाधकत्वात् । एतेन 'रूपकस्योपमाज्ञानाधीनज्ञानत्वेन प्रथमोपस्थिततया तस्या एव संबन्धत्वं कल्प्यम्' इति काव्यप्रकाशटीकाकारैरुक्तं नातीव श्रद्धेयमिति । प्रकृतमनुसरामः ।
1
एवमलंकारान्तरमपि शब्दशक्तिमूलानुरणनस्य विषयः । यथा यमुनावर्णने – 'रविकुलप्रीतिमावहन्ती नरविकुलप्रीतिमावहति । अवारितप्रवाहा सुवारितप्रवाहा ।' इह नराणां वीनां च कुलस्य प्रीतिमावहतीति प्रकृतेऽर्थे सिद्धे रविकुलप्रीतिं नावहतीति द्वितीयोऽप्रकृतोऽर्थः विरोधश्च । एवमन्यत्रापि । यदि तु रविकुलप्रीतिमावहन्त्यपि न रविकुलप्रीतिमावहति । अवारितप्रवाहापि सुवारितप्रवाहा इत्यपिरन्तर्भाव्यते तदा विरोधांशस्यापिनोक्तत्वाद्वितीयार्थस्य च तदाक्षिप्तत्वान्न ध्वनित्वम् । निपातानां द्योत - कतानयेऽपि स्फुटद्योतितस्य तदाक्षिप्तस्य च वाच्यकल्पत्वान्न तथात्वम् ।
त्यर्थः । प्राचोक्तमुपमालंकारध्वन्युदाहरणं खण्डयति - अन्यच्चेति । किं चेत्यर्थः । श्लेष - भित्तिकं तन्मूलकम् । विधीयमान इति । क्रियमाण इत्यर्थः । एकपदोपात्तत्वादन्यदित्यन्वयः । इह तु ‘उल्लास्य - ' इत्यादौ तु । इतिः पूर्वग्रन्थसमाप्तौ । अलंकारान्तरमिति । उपमातिरिक्तमपीत्यर्थः । रवीति । सूर्यवंशप्रीतिं मनुष्यपक्ष्युभयसमूहप्रीतिं च । अवारीति । अप्रतिबद्धप्रवाहा । शोभनं वार्जलं तत्संजातं यस्य तादृशः प्रवाहो यस्याः सा । विरोधश्चेति । अलंकारो ध्वन्यत इति शेषः । द्वितीयार्थस्य चाप्रकृतार्थस्य च । तदेति । अपिबोध्यविरोधेत्यर्थः । ननु निपातानां द्योतकत्वेनोक्तत्वाभावाद्धनित्वमेवात आह-निपातानामिति । तथा च द्योतकत्वं विलक्षणमिति भावः । न तथात्वं न ध्वनित्वम् । प्राचीनोदाहरणे शङ्कते —नन्विति ।