________________
रसगङ्गाधरः ।
१२७
पिताया उपमायाः प्रकृतधर्म्युपकारकत्वं वार्यते । येन गुणीभूतव्यइयत्वं न स्यात् । न चात्रोपमादीनामलंकाराणां खभावतः सुन्दरत्वात्काव्यप्रवृत्त्युद्देश्यतया च वस्तुमात्रे गुणीभावो न संभवति । यथा वस्तुमात्रेणाभिव्यक्तानामलंकाराणाम् । तुल्यन्यायत्वात् । अप्रकृतव्यवहारस्य तु समासोक्त्यवयवस्य निरलंकारतया वस्तुन्युपस्कारकत्वं समासोक्तावविरुद्धमिति वाच्यम् । एवमपि 'बाधेऽदृढेऽन्यसाम्याकिं दृढेऽन्यदपि बाध्यताम्' इति न्यायेनोक्तयुक्तेः शिथिलत्वात् , अपराङ्गताया दुरपह्नवत्वात् । अथोच्यते-उपमानमुपमेयं साधारणो धर्म इति झुपमाशरीरघटकम् । न तु ततः पृथग्भूतम् । तैर्विना तस्या अनिष्पत्तेः । इत्थं चोपमेयस्य साहश्यांशेनोपस्कारेऽप्युपमाया नापराङ्गत्वम् । उपमेयस्यापरत्वाभावात् । यथा समासोक्तावप्रकृतव्यवहारेण प्रकृतस्योपस्करणेऽपि न समासोक्तरपराङ्गत्वम् । प्रकृताप्रकृतघटितत्वात् । एवमिहापि स्यादिति । तथापि समासोक्तेरिवास्यापि प्रभेदस्य गुणीभूतव्यङ्गयत्वापत्तेः, अस्यैव वा समासो
रस्यापि शृङ्गारादेः क्वचिद्गुणभावदर्शनादाह-काव्यप्रवृत्त्युद्देश्यतया चेति । अन्यथा नानार्थशब्दघटितकाव्यकरणरूपकविप्रयासानर्थक्यापत्तिरिति भावः । वस्तुमात्रे प्रकृतार्थे । यथा वस्तुमात्रेति । 'वीररुद्रभटान्दृष्ट्वा जयलक्ष्मीसमावृतान् । रणे कर्षन्यरिवधूकेशस्तेि कण्टकिद्रुमाः ॥' इत्यादाविति भावः । तुल्येति । उक्तहेतोस्तुल्यवादित्यर्थः । अनलंकारत्वेऽवयवलं हेतुः । अदृढे इति च्छेदः । सादृश्यांशेन तद्रूपोपमाङ्गे. नोपमानेन । उक्तमेवार्थ विशदयति-यथेति । गुणीभूतव्यङ्ग्यत्वापत्तेरिति । अयं भावः-विशिष्टस्योपमाशरीरत्वेऽपि उपमेयांशस्य न व्यङ्ग्यत्वम् । शक्त्यैव तल्लाभात् । एवं च तद्धटकव्यङ्ग्यांशस्य तदघटकवाच्यादनतिशायित्वेन गुणीभूतव्यङ्ग्यत्वं दुर्वारमिति । अत्र वदन्ति-अलंकाराणामुद्दीपनविधया रसाधुपयोगित्वेनालम्बनोपेक्षयोद्दीपनेऽधिकचमत्कारित्वस्य सर्वानुभवसिद्धतया करतलेतिपदवाच्यालम्बनविभावापेक्षयातिशायित्वावनित्वमव्याहतमेव । रसाद्यपेक्षया गुणीभूतव्यङ्ग्यत्वं विष्टमेव । समासोक्तौ तु 'आगत्य संप्रति वियोगविसंष्ठुलाङ्गीम्' इति सखीशिक्षावाक्येऽप्रकृतनायकवृत्तान्ताध्यारोपं विना तदनुपपत्तेर्गुणीभूतव्यङ्ग्यत्वं स्पष्टमेव । यत्र तु तस्यापि रसाधुपस्कारकतया वाच्यादतिशयितत्वं प्रागुक्तरीत्या तत्रास्तु नाम ध्वनित्वं तस्याः । न चैवमप्युपमाकृतोत्कर्षमादायास्तु ध्वनित्वम् , अलंकारध्वनिरिति तु कथमिति वाच्यम् । अलंकारकृतोत्कर्षध्वनावेवालंकारध्वनिरिति व्यवहारादिति विनिगमनाविरहात् । अस्यैव वेति । प्रभेदस्यैवे