________________
१२६
काव्यमाला। थाकथंचिदुपपाद्यते, तदा प्रायशो लिङ्गभेद एव । एतेन तु सर्वथैव ततः खतन्त्र इति बोध्यम् । तत्र शब्दशक्तिमूलालंकारस्य ध्वनिर्यथा
'करतलनिर्गलदविरलदानजलोल्लासितावनीवलयः ।
धनदाग्रमहितमूर्तियतितरां सार्वभौमोऽयम् ॥' अत्र राजप्रकरणे करदानसार्वभौमशब्दानां शक्तौ संकोचितायामपि तन्मूलकेन ध्वननेन प्रतीयमानस्यार्थान्तरस्याप्रस्तुतस्याभिधानं मा भूदिति प्रकृताप्रकृतयोरुपमानोपमेयभावः प्रधानवाक्यार्थतया कल्प्यत इत्युपमालंकारध्वनिः । अथ श्लिष्टविशेषणायां समासोक्तौ व्यङ्ग्यस्याप्यप्रकृतव्यवहारस्य प्रकृतधर्मिण्यारोप्यमाणस्य प्रकृतोपस्कारकतया यथा गुणीभूतव्यङ्ग्यत्वमेवमिहाप्युचितम् । न चोपमा प्रकृतार्थोपस्कारिका न भवतीति शक्यं वदितुम् । 'उल्लास्य कालकरवालमहाम्बुवाहम्', 'भद्रात्मनो दुरधिरोहतनोः' इत्यादौ प्राचीनानां पद्ये 'करतल-' इत्यादि प्रागुदाहृतपद्ये च व्यङ्गयोपमया प्रकृतस्य राज्ञः प्रकर्षस्य सकलानुभवसिद्धत्वात् । अनुभवापलापे तु समासोक्तावप्यप्रकृतव्यवहारस्य प्रकृतोपस्कारकत्वं नेति सुवचत्वात् । ननु समासोक्तावत्र चास्ति विशेषः । यत्तत्र व्यवहारिणो नानार्थशब्दानुपस्थाप्यत्वम् , इह तु तदुपस्थाप्यत्वम् , इति चेत् , किं चातो नहि व्यवहारिणो नानार्थशब्दोपस्थाप्यतामात्रेणाप्रकृतधर्मिनिरू
दाह-सर्वथैवेति । ततः लिङ्गात् । तत्र त्रयोदशमेदानां मध्ये । अलंकारस्येत्यस्योपमेत्यादिः । अविरलेति । संततेत्यर्थः । अवनीवलयः भूमण्डलः । धनदानामग्रे आदी महिता पूजिता मूर्तिर्यस्य सः । अत्रेति । हस्तवितरणदातृजनभूपेष्विति भावः । तन्मूलकेन शब्दशक्तिमूलकेन । अर्थान्तरेति । इन्द्रवृत्तान्तेत्यर्थः । षष्ठ्यर्थे बहुव्रीहिद्वयम् । करतलमैरावतशुण्डागण्डस्थलम् । धनदः कुबेरः । अप्रस्तुतस्यासंब. द्धस्य । श्लिष्टेति । 'अयमैन्द्रीमुखं पश्य' इत्यादौ । व्यवहारस्य मुखचुम्बनादिरूपस्य । आरोप्येति । अन्यथा असंबद्धाभिधानं स्यादिति भावः । इहापि करतलेल्यादावपि । तथा च मध्यमकाव्यत्वम् , नोत्तमकाव्यवमिति भावः । व्यङ्ग्योपमयेति । व्यङ्ग्यरूपो. पमयेत्यर्थः । समासोक्तावपि उक्तरूपायाम् । अत्र च करतलेल्यादौ । एवमग्रेऽपि । व्यवहारिणो जारादेः । तदुपेति । सार्वभौमेति नानार्थपदोपेत्यर्थः । खभावसुन्द