________________
१२४
काव्यमाल। सामायं कारणता॥ ___ यथा-'मधुना मत्तः कोकिलः' इत्यत्र कोकिलमदजनकता मधुशब्दस्य वसन्ते । अत्र कोकिलमादने मधोरेव शक्तिर्न तु मधुनः । मादकत्वं मधुन्यपीति न लिङ्गमिति वदन्ति । तत्र सामर्थ्य लिङ्गान्तर्गतमेव कुतो न स्यात् , इति शङ्कायाः कथमेतदुत्तरं संगच्छते । न च मादनसामर्थ्यस्य सुरावृत्तितया नासाधारणधर्मतारूपं लिङ्गत्वमिति वाच्यम् । मादनसामर्थ्यस्य सुरावृत्तित्वेऽपि कोकिलमादनसमर्थस्य वसन्तासाधारणतया लिङ्गस्य दुरित्वात् । न च प्राणिमात्रमादनसामर्थ्यस्य मधुनः कोकिलमादनसामर्थ्यमप्यस्तीति वाच्यम् । एवं सति सामर्थ्यस्य वाचकतानियामकत्वमसंगतं स्यात् । न तु मधुन इति खोक्तिविरोधश्च भवेत् । प्रसिद्ध्याअये पुनर्लिङ्गत्वमप्रच्युतम् । शाब्दत्वाशाब्दत्वाभ्यामेकानेकपदार्थत्वाभ्यां वा विशेषस्तु स्यात् । ' औचिती योग्यता॥ . यथा-'पातु वो दयितामुखम्' इत्यत्र दयितामुखकर्तृकरक्षणकर्मत्वाक्षिप्तकामार्तानां संबोध्यपुरुषाणां त्राणं हि तस्याः सांमुख्येनैव भवति । न तु मुखमात्रेण । वैमुख्ये तेन त्राणायोगात् । अतस्त्राणार्हत्वं वदनसांमुख्योभयप्रत्यायकस्य मुखशब्दस्य ।
देशो नगरादिः॥
यथा-'भात्यत्र परमेश्वरः' इत्यादौ परमेश्वरादिशब्दस्य राजादौ । तस्य नगरादिसंबन्धतदभावयोः संभवेनाभावव्यावृत्त्यर्थमधिकरणकीर्तनस्य
त्यायकस्य । गवेषणेऽन्वेषणे । तन्मूलोक्ते प्रकाशकारोक्ते । मधुनो मद्यस्य । वदन्तीति सूचितामरुचिमाह-तत्रेति । मधुनेत्युदाहरणविषयभूतमित्यर्थः । मादने करणे ल्युट । वाचकतेति । शक्तीत्यर्थः । असाधारणत्वाभावादिति भावः । इष्टापत्तावाह-न त्विति । अप्रच्युतमिति । कोकिलमादनसामर्थ्यस्य वसन्त एव प्रसिद्धेरिति भावः । शाब्दत्वाशाब्दत्वाभ्यामिति । मधुकरणकमदाश्रयः कोकिल इति हि तत्र बोधः शाब्दः । कुपितो मकरध्वज इत्यत्र तु कोपाश्रयाभिन्नः इत्येव तथेति भावः । एवं मेदस्य प्रागनुक्कलात्तत्रापि कोपसाधनोल्लेखस्य सुवचलाचाह-एकानेकेति । आक्षिप्तेति । विशेषरूपेणाक्षिप्त्यर्थः । सांमुख्येन संमुखलेन । तेन मुखेन । तदुक्तीति ।