________________
रसगङ्गाधरः ।
शब्दस्यान्यस्य संनिधिर्नानार्थपदैकार्थमात्र संसर्ग्यर्थान्तरवाचकपदसमभिव्याहारः ||
१२३
यथा— 'करेण राजते नागः' इत्यत्र करपदस्य नागपदमादाय, नागपदस्य च करपदमादाय शुण्डायां गजे च । न चात्रैकशब्दशक्तिनियमन - मपरशब्दशक्तिनियमोऽपेक्षते, येनान्योन्याश्रयः स्यात् । किंतु करनागशब्दयोरर्थान्तरग्रहणेऽन्वयापत्त्या युगपदेव शक्तिर्नियम्यते । देवस्य पुरारातेरिति प्राचामुदाहरणे सुरत्वभूपत्वाभ्यां देवपदान्नगरारित्वासुरविशेघारित्वाभ्यां पुरारालिपदाच्चोपस्थितेरुभयोरपि नानार्थत्वादर्थान्तरखीकारेऽप्यन्वयोपपत्तेश्च कथं शक्तेर्नियमः स्यात् । न च पुरारातिपदं योगरूढम् । तथा च रूढेयोंगापहारितया शिवत्वेनैव तस्य बोधकत्वाद्देवपदशक्तिनियामकतेति वाच्यम् । पुरारातिपदस्य रूढौ मानाभावात् । अथ 'देवस्य त्रिपुरारातेः' इति पाठस्तथापि पदान्तरोपस्थापितस्य त्रिपुरासुरवैरित्वस्य लिङ्गतया लिङ्गोदाहरणत्वमेवास्य स्यात् । न तु शब्दान्तरसंनिध्युदाहरणत्वमिति वदन्ति । तत्रैकपदार्थः कोपादिः पदार्थान्तरेणानन्वित एव यः प्रकृतशक्यधर्मताम्, शक्यान्तरव्यावृत्ततां च भजते स लिङ्गपदेनात्रोक्त इति प्राचामाशये तु नोक्तदोषः । यत्तु शब्दस्याव्यभिचरितस्य संनिधिः सामानाधिकरण्यम्' इति काव्यप्रकाशटीकाकारैरुक्तम् । 'तत्तु करेण राजते नागः ' इत्यादावव्यापनात्तन्नियामकान्तरस्य गवेषणे गौरवात्, 'कुपितो मकरध्वजः ' इति तन्मूलो लिङ्गोदाहरणेऽतिव्यापनाच्चोपेक्ष्यम् ।
*
नियमनमिति शेषः । एवमग्रे सर्वत्र । न चेति । नहीत्यर्थः । अर्थान्तरेति । हस्तसपैत्यर्थः । प्राचोक्तं खण्डयति - देवस्येत्यादि । वदन्तीत्यन्तेन । अर्थान्तरेति । भूपनगरादिरूपेत्यर्थः । तस्य पुरारातिपदस्य । देवेति । पुरेत्यादिः । पदान्तरेति । त्रिपुरारातेरितीत्यर्थः । अस्य देवस्य त्रिपुरारातेरित्यस्य । वदन्तीति सूचितामरुचि - माह - तत्रेति । 'देवस्य त्रिपुरारातेः' इति पाठे इत्यर्थः । प्रकृते च वैरित्वं त्रिपुरासुरान्वितमेव शक्यान्तरव्यावृत्तमतो न दोष इति भावः । वस्तुतस्तु त्रिपुराराविपदस्य योगरूढत्वेन रूढ्यर्थान्वितत्रिपुरासुरवैरित्वस्य तत्पीड्यमानभूभृत्खपि सत्त्वेन शक्यान्तरव्यावृत्तत्वाभावाच्च । एवं चैकपदार्थ इत्यस्य यथाश्रुतत्वमेवास्त्विति बोध्यम् । नोक्तदोष इति । शब्दान्तरसंनिध्युदाहरणत्वाभावरूपदोषो नेत्यर्थः । अव्यभिचरितस्यार्थान्तरान