________________
१२२
काव्यमाला। प्रकरणादविशेषः । विरोधस्य प्रक्रान्तत्वेऽपि भार्गवकार्तवीर्ययोः शक्तिनियमाधिकरणयोरप्रक्रान्तत्वात् । सहानवस्थानलक्षणा विरोधिता तु छायातपावित्यादौ बोध्या।
अर्थः प्रयोजनं चतुर्थ्याद्यभिधेयम् ॥ यथा—'स्थाणुं भज भवच्छिदे' इत्यादौ भवच्छेदनादि स्थाणुपदस्य भवे । नन्वर्थस्य लिङ्गात्को भेदः । न च लिङ्गमनन्यसाधारणस्तद्धर्मः, अर्थस्तु तद्भजनादेः कार्यम्, न तु तद्गतो धर्म इति स्फुट एव भेद इति वाच्यम् । भवच्छेदजनकभजनकर्मत्वस्य काष्ठावृत्तिभवधर्मत्वादिति चेत् । अत्राहुः-उक्तस्य विशिष्टधर्मस्य शाब्दबोधोत्तरभाविमानसबोधविषयत्वेन प्रकृतशाब्दबोधाविषयत्वाल्लिङ्गतो वैलक्षण्योपपत्तिरिति । लिङ्गं त्वेकपदार्थः कोपादिः । अनन्वित एव यः पदार्थान्तरेण प्रकृतशक्यधर्मतां शक्यान्तरव्यावृत्ततां च भजते । उक्तधर्मस्तु न तथेत्यपि केचित् ।
प्रकरणं वक्तृश्रोतबुद्धिस्थता ॥
यथा—राजानं संबोध्य केनचिद्भत्येनोक्ते 'सर्व जानाति देवः' इति वाक्ये देवपदस्य युष्मदर्थे ।
लिङ्गं नानार्थपदशक्यान्तरावृत्तिरेकशक्यगतः साक्षाच्छब्दवेद्यो धर्मः॥ ___ यथा-'कुपितो मकरध्वजः' इत्यत्र कोपो मकरध्वजपदस्य ।
प्रक्रान्तत्वे एव प्रकरणस्य नियामकलमिति भावः । द्वितीयविरोधितोदाहरणमाह-सहेति । आदिना तुमुनादिपरिग्रहः । छेदनादीत्यस्य प्रयोजनमिति शेषः । भवे । अभिधानियामकमिति शेषः। अत्र तच्छब्दाः शिवपराः । काष्ठावृत्तीत्यनेनानन्यसाधारणलं सूचितम् । उक्तस्य भवच्छेदजनकभजनकर्मवस्य । शाब्देति । भवच्छेदफलकचैत्राभिन्नकर्तृकस्थाणुकर्मकभजनमित्यस्यैव शाब्दबोधत्वादिति भावः । प्राचीनाशयसूचकं मतान्तरमाह-लिङ्गं त्विति । एकपदार्थ इत्यस्य विवरणं पदार्थान्तरेणानन्वित एवेति । एवं चासमस्ताखण्डैकपदार्थे लिङ्गमिति फलितम् । भवच्छेदनादिकं च भजनादिरूपभिन्नपदार्थान्वितमेव भवधर्म इति भावः । कोपादिरिति । कुपितो मकरध्वज इत्यादौ । उक्तेति । भवच्छेदजनकभजनकर्मवरूपस्तु भजनादिरूपभिन्नपदार्थान्वित एव भवधर्मो नानन्वित इत्यर्थः । अत्रारुचिः स्फुटीभविष्यत्यनुपदमेव । युष्मदर्थे । शक्ति