________________
रसगङ्गाधरः ।
१२१
पदस्याभिधानियमनमिति रामरावणयोरित्युदाहरणं भवितुमर्हति' इति । तत्र तावद्रामरावणयोरिति व्यवस्थितार्थान्यतरपदकमुदाहरणं विरोधिताया नियामकत्वस्य न युक्तम् । रामलक्ष्मणयोरित्यत्रेवात्रापि साहचर्यस्यैव नियामकत्वात् । न च लक्ष्मणसाहचर्य रामस्य प्रसिद्धम्, न तु रावणसाहचर्यमिति वाच्यम् । प्रसिद्धतत्संबन्धकस्यैव तत्ताहचर्यपदार्थत्वात् । पितृभ्रातृजायापत्यभृत्यनगरीणां संबन्धस्येव रिपोः संबन्धस्यापि लोकप्रसिद्धत्वात् । एवं स्थितेऽपि विरोधितायाः पृथग्गणने मित्रत्वादेरपि तथा गणनापत्तेः । तस्मात्प्राचीनोदाहरणमिव त्वदुक्तमुदाहरणमप्यशुद्धमेव । 'अन्यतरपदस्य व्यवस्थितार्थत्व एव' इत्याद्यप्यसंगतमेव । हरिनागस्येत्यादावुभयोरव्यवस्थितार्थत्वेऽप्येकवद्भावाभिव्यक्तेन विरोधेन धर्मिविशेषाविशेषितेनापि युगपद्धर्मिविशेषद्वयेऽभिधाया नियन्तुं शक्यत्वात् । यदपि 'रामार्जुनगतिस्तयोरिति शब्दान्तरसंनिधेरुदाहरणम्' इति स एवाह । तदप्यसत् । त्वया निरूपिते शब्दान्तरसंनिधेरुदाहरणे 'निषधं पश्य भूभृतम्', 'नागो दानेन राजते', इत्यत्र चाभिधाया नियतविषयतां विनान्वयस्यैवानुपपत्त्या, प्रकृते च 'रामार्जुन गतिस्तयो' रित्यत्रार्थान्तरविषयत्वेऽप्यन्वयानुपपत्तेरभावान्महति वैलक्षण्ये शब्दान्तरसंनिध्युदाहरणत्वायोगात् । एवमपि काव्यप्रकाशगतस्य 'रामार्जुनगतिस्तयो' रिति विरोधितोदाहरणस्यासंगतिः स्थितैवेति चेत् । न । तयोः कयोश्चित्प्रसिद्धविरोधयो रामार्जुनगती रामार्जुनसदृशी गतिराचरणमिति तदर्थवर्णने विरोधेन प्रस्ताववशात्प्रतीतेन युगपद्भार्गवकार्तवीर्ययो रामार्जुनशब्दाभिधाया नियमनस्योपपत्तेः । न च
साहचर्यस्य नियामकत्वसंभवेऽपि । तथा पृथक् । त्वदुक्तमप्पय्यदीक्षितोक्तम् । तत्सि - द्धान्तं खण्डयति — अन्यतरेति । हरीति । 'येषां च विरोधः शाश्वतिकः' इति समाहारैकवद्भावः । अत एवाह - एकवद्भावेति । स एवाप्पय्यदीक्षित एव । भूभृतमित्यत्रेति । निषधपदसांनिध्याद्भूभृत्पदस्य राज्ञि, दानपदसांनिध्यान्नागपदस्य गजेऽभिधानियमनम् । अर्थान्तरविषयत्वेऽपीति । रामार्जुनवत्पराक्रमशालिलमित्याद्यर्थान्तरम् । एवमपि दीक्षितोतसांगत्येऽपि । स्थितैवेति । दीक्षितोद्भावितान्योन्याश्रयस्यानुद्धारादिति भावः । तदर्थेति । उदाहरणार्थेत्यर्थः । प्रस्तावः प्रकरणम् । युगपदिति । तथा च नान्योन्याश्रय इति भावः । नियमनेति । तन्नियमाश्रयस्य
११ रस०