________________
११६
काव्यमाला |
सरखतीयं पतञ्जलिव्याजात् ।', 'सौधानां नगरस्यास्य मिलन्त्यर्केण मौलयः ।' इत्यादौ वाच्यार्थान्वयबोधोपपादनायानुसरणीयेन यत्नेन नानार्थस्थलेऽपि बाधितार्थबोधस्योपपत्तिः स्यात् । अन्यथा प्रायशः सर्वेष्वप्यलंकारेषु वाच्यार्थबोधोपपत्तये व्यञ्जनाङ्गीकरणीया स्यात् । तस्मान्नानार्थस्याप्राकरणिकेऽर्थे व्यञ्जनेति प्राचां सिद्धान्तः शिथिल एव । प्राकरणिकाप्राकरणिकयोरर्थयोरुपमायां तु सा कदाचित्स्यादपीत्यत्रास्माकं प्रतिभाति । एवमपि योगरूढिस्थले रूढिज्ञानेन योगापहरणस्य सकलतन्त्र सिद्धतया रूढ्यनधिकरणस्य योगार्थलिङ्गितस्यार्थान्तरस्य व्यक्तिं विना प्रतीतिर्दुरुपपादा |
।
यथा
'अबलानां श्रियं हृत्वा वारिवाहैः सहानिशम् । तिष्ठन्ति चपला यत्र स कालः समुपस्थितः ॥'
अत्राशक्तानां द्रव्यमपहृत्य जलवाहकै : पुरुषैः सह पुंश्चल्यो रमन्त इत्यर्थान्तरं न तावदबलावारिवाह चपलाशब्दैर्योगरूढ्या शक्यते बोधयितुम् । मेघत्वविद्युत्त्वाद्यघटितस्यैव तस्यार्थस्य प्रतीतेः । अन्यथा चमत्कारो न स्यात् । अत एव योगशक्त्यापि केवलया । रूढ्यर्थासंवलितार्थबोधकत्वस्य तस्या रूढिसमानाधिकरणाया असंगतेः । पुंश्चलीत्वादेः सर्वथैव तंदविषयत्वात् । एवं यौगिकरूढिस्थलेऽपि बोध्यम् ।
गामित्यस्य यत इत्यादि । यत्नेनेति । बाधज्ञानं शाब्दज्ञाने न प्रतिबन्धकम् । अयोग्यतानिश्चयश्च । एवं योग्यताज्ञानमपि न कारणम् । आहार्यो वा बोध इत्यादि यत्नोSग्रे मूल एव स्फुट: । अन्यथा तत्रैव यत्नानुसरणाभावे । सर्वेष्विति । गामित्यत्र व्याजोक्तिः । सौधानामित्यत्र संबन्धातिशयोक्तिः । एवमन्यत्रापि बोध्यम् । नानार्थस्य शब्दस्य । सा व्यञ्जना । तथा चोपमा व्यक्त्येति भावः । स्यादपीत्यसंदिग्धे संदिग्धवचने । वेदाः प्रमाणं यदीतिवत् । तादृशद्वितीयार्थमादाय वाक्यार्थस्यासंबद्धार्थकत्वं मा भूदिति कल्प्यमानोपमाया अर्थापत्तिवेद्यत्वस्यापि संभव इत्यत उक्तं कदाचिदिति । अपहरणं बाधः । योगार्थेति । योगशक्तीत्यर्थः । अबलेति । विद्युतो मेधैः सह नाI यिकानां शोभामपहृत्य यत्र तिष्ठन्ति स कालः समागत इति वाच्यार्थः । तस्यार्थान्तरस्य । अन्यथा तदप्रतीतौ । तदघटितस्यैव प्रतीताविति यावत् । अत एवेत्यस्यार्थमाहरूढ्यर्थेति । तस्या इति । योगशक्तेरित्यर्थः । ननु फलबलात्तथा कल्प्यतेऽत