________________
रसगङ्गाधरः। से हेतुः, स च फलबलाच्चमत्कारिण्येवार्थे व्यक्तिमुल्लासयति नाचमत्कारिणीति सिद्धं व्यञ्जनोल्लासस्य क्वाचित्कत्वमिति चेत् । न । हन्तैवं स नियन्त्रितशक्तेरेवोल्लासकोऽस्त्विति कृतं नानार्थस्थले व्यक्तिकल्पनया । किं च 'उल्लास्य कालकरवालमहाम्बुवाहम्' इत्यादि नानार्थव्यञ्जकस्थलेऽगृहीतद्वितीयार्थशक्तिकस्य गृहीतविस्मृतद्वितीयार्थशक्तिकस्य वा पुंसः सर्वथैव व्यञ्जनया द्वितीयार्थबोधानुदयात्तत्र तया तदापत्तिस्तव दुर्वारा । न च येन शब्देन योऽर्थो व्यज्यते तस्य शब्दस्य तदर्थगतशक्तिज्ञानं तदर्थव्यक्तेरुल्लासे हेतुरिति वाच्यम् । 'निःशेषच्युत-' इत्यादौ रमणव्यक्त्यनापत्तेः । नयधमपदस्य कस्यचिद्रमणे शक्तिग्रहोऽस्ति । सति वा तस्मिंस्तेनैवोपपत्तौ व्यक्तिकल्पनवैयर्थ्यापत्तेश्च । न च नानार्थव्यञ्जनस्थल एवैवंजातीयकः कार्यकारणभावः कल्प्यते । तत्र च शक्तेर्नियन्त्रितत्वेन तद्रहस्याप्रयोजकतया व्यक्तिकल्पनौचित्यादिति वाच्यम् । नवीनकार्यकरणाभावकल्पने गौरवप्रसङ्गात् । नियन्त्रणस्य पूर्वमेव दूषितत्वेन तद्धेतोरेवेति न्यायावताराच । अथास्त्वप्राकरणिकोऽप्यर्थः शक्तिवेद्य एवान्वयधीगोचरः, परंतु यत्र न बाधितः स्यात् । यत्र तु बाधितस्तत्र 'जैमिनीयमलं धत्ते रसनायामयं द्विजः' इत्यादौ जुगुप्सितोऽर्थः, वहिना सिञ्चतीत्यादौ वहिकरणकसेक इवाबोधोपहत एव स्यात् । बाधनिश्चयस्य तद्वत्ताज्ञानं प्रति प्रतिबन्धकतायाः सर्वजनसिद्धत्वात् । व्यक्तेस्तु बाधितार्थबोधकत्वं धर्मिग्राहकमानसिद्धमिति व्यक्तिवादिनामदोष इति । मैवम् । ‘गामवतीर्णा सत्यं
क्तिविशेष इत्यर्थः । सः शक्तिविशेषः । नियन्त्रितेत्यस्य प्रकरणादिनेत्यादिः । अभ्युपेत्याह-किं चेति । विनिगमनाविरहादाह-गृहीतेति । सर्वथैव सर्वप्रकारेणैव । सिद्धान्ते इत्यादिः । तयेति । व्यञ्जनयेत्यर्थः । तदापत्तिद्धितीयार्थबोधापत्तिः । एतद्दोषोद्धाराय शङ्कते-नचेति । रमणेति । नायककर्तृकरतीत्यर्थः । सति वेति । नायके तच्छक्तिग्रहसत्त्वादिति भावः । तेनैवेति । शक्तिग्रहेणैव बोधोपपत्तावित्यर्थः । एवंजातीयको येन शब्देनेत्याद्युक्तः । तथा च निःशेषेत्यादौ न दोष इति भावः । नन्वन्यथानुपपत्त्या गौरवं सुसहमत आह-नियन्त्रणेति । तद्धेतोरिति । व्यक्त्युल्लासहेतोस्तदर्थगतशक्तिज्ञानस्यैव तदर्थबोधजनकत्वमस्तु, किं व्यक्त्युल्लासजनकवेनेत्यर्थः । अपिः प्राकरणिकार्थसमुच्चायकः । तत्रेयस्येत्यादावित्यनेनान्वयः । जैमीति । जैमिनिप्रोकं पूर्वमीमांसाशास्त्रं अलं परिपूर्ण धत्ते इत्येकोऽर्थः । जैमिनिप्रोक्तशास्त्राध्येतृणां मलं विष्ठां धत्ते इत्यपरोऽर्थो निन्दितः । गामिति सौधानामिति च भिन्नपद्यार्थे ।