________________
काव्यमाला। अतात्पर्यार्थबोधस्य सार्वत्रिकत्वे तस्य शक्तिजतायामपि बाधकाभावात् । अथ नानार्थशब्दादर्थद्वयोपस्थितौ सत्यां प्रकरणादिना सत्येकस्मिन्नर्थे तात्पर्यनिर्णये तस्यैवार्थस्य प्रथमं शाब्दबुद्धिर्जायते, नापरस्यार्थस्येति नियमरक्षणाय शक्तिजतदर्थशाब्दबुद्धौ तदर्थतात्पर्यज्ञानं हेतुरिष्यते । अन्यथा तात्पर्यविषयतया निर्णीतस्यार्थस्येवातथाभूतस्यापरस्याप्यर्थस्य प्रथम शाब्दधीः स्यात् । अनन्तरं तु तात्पर्यविषयार्थबोधादतात्पर्यविषयार्थविषयापि शाब्दधीरिष्यत इति तंजन्यतावच्छेदककोटौ शक्तिजत्वं निवेश्यत इति चेत् । मैवम् । 'सोऽव्यादिष्टभुजंगहारवलयस्त्वां सर्वदो माधवः' इत्यादौ श्लेषकाव्य इव प्रकृतेऽपि प्रकृताप्रकृतयोरर्थयोर्बोधस्य खीकारे बाधकाभावात् । न च दृष्टान्तेऽर्थद्वयेऽपि प्रकरणसाम्यात्तात्पर्यज्ञानमस्तीति युगपद्वयोर्बोध उपपद्येत । दार्टान्तिके त्वेकत्रैव प्रकरणादिवशात्तदिति न युगपदर्थद्वयबोधोपपत्तिरिति वाच्यम् । तात्पर्यज्ञानकारणताया एवासिद्धत्वेन युगपदर्थद्वयबोधानुपपत्तिवाचोयुक्तेररमणीयत्वात् । तादृशज्ञानहेतुतासिद्धौ तु शक्येतापीत्थं वक्तुम् । तर्हि तात्पर्यज्ञानस्य कुत्रोपयोग इति चेत् । अस्मिन्नर्थेऽयं शब्दः प्रमाणमयमर्थः प्रमाणवेद्य इत्यादिनिर्णये प्रवृत्त्याधुपयोगिनीति गृहाण । इत्थं च नानार्थस्थलेऽपि तात्पर्य धियः कारणतायां शिथिलीभवन्त्यामतात्पर्यार्थविषयशाब्दबुद्धिसंपादनाय व्यक्तिखीकारोऽनुचित एव । शक्त्यैव बोधद्वयोपपत्तेः । नापि द्वितीयः । हेतोरभावात् । व्यङ्ग्यार्थविषयककवितात्पर्यज्ञानं तथेति चेत् । न । व्यक्तिजबोधे तात्पर्यज्ञानकारणतायास्त्वयानभ्युपगमात् । यत्राश्लीलं दोषस्तत्राप्राकरणिकेऽर्थे सकलानुभवसिद्धे कवितात्पर्यस्य विरहात्तज्ज्ञानस्य तादृशबुद्धिहेतुताया व्यभिचारदूषितत्वाच्च । अथ श्रोतुः शक्तिविशेषो व्यक्तेरुल्ला
अतथाभूतस्यातात्पर्यविषयस्य । अनन्तरं त्विति । बोधादित्यग्रेऽन्वेति । युगपदिति शेषो बोधस्येत्यस्य बोध्यः । तत्तात्पर्यज्ञानम् । वाच इति । तद्रूपवाचोयुक्तरित्यर्थः । द्वितीय इति । नानार्थस्थले क्वचिदेव व्यञ्जनोल्लास इतीत्यर्थः । शङ्कते-व्यङ्गयेति । तथा हेतुः । नन्वेवमपि फलबलात्वीक्रियतेऽत आह-योति । विरहादिति । दोषप्रतिपादने तात्पर्यादिति भावः । तज्ज्ञानस्य कवितात्पर्यज्ञानस्य । तादृशेति । व्यक्तिजेत्यर्थः । व्यभिचारेति । व्यतिरेकव्यभिचारेत्यर्थः । शक्तिविशेष इति । बुद्धिश