________________
रसगङ्गाधरः।
धेऽपेक्ष्यत इति तदसारम् । नानार्थादर्थद्वयोपस्थितावपि प्रकरणादिज्ञाना• धीनतात्पर्यमहिम्नैव विवक्षितार्थशाब्दबोधोपपत्तेः, एकार्थमात्रोपस्थित्यपेक्षायां मानाभावात् । अपरार्थोपस्थापकसामग्र्याः पदज्ञानस्य तत्त्वेन तदुपस्थितेरप्यौचित्याच्च । न च प्रकरणादिज्ञानं तदधीनतात्पर्यज्ञानं वा परार्थोपस्थाने प्रतिबन्धकमिति शक्यं वक्तुम् । संस्कारतदुबोधकयोः सत्त्वे स्मृतेः प्रतिबन्धस्य क्वाप्यदृष्टत्वात् । अत्रैव स्मृतावयं प्रतिबध्यप्रतिबन्धकभावः कल्प्यते, न स्मृत्यन्तरे इत्यप्यहृदयंगमम् । तादृशकल्पनाया निष्फलत्वात् , अनुभवविरुद्धत्वाच्च । तथा हि नानार्थशक्तिविषयकदृढसंस्कारशालिनां प्रकरणज्ञानवतामपि पयो रमणीयमित्यादेर्वाक्यात्प्रथममर्थद्वयोपस्थितिरनुभवसिद्धा । अत एव पयो रमणीयमित्यादिवाक्यमकस्मादप्याकर्णितवद्भिः प्रकरणाद्यभिज्ञैरप्रकरणज्ञाः पांसुरपादा वक्तुस्तात्पर्य बोध्यन्ते, नूनमस्य दुग्धे तात्पर्य शब्दस्य न तु जल इति । यदि च प्रकरणादिज्ञानं नानार्थशब्दाज्जायमानामप्राकरणिकार्थोपस्थितिं प्रतिबध्नीयात्तत्कथमेते तदानीमनुपस्थितजलाः प्रकरणज्ञा जलतात्पर्य निषेधेयुरित्यहृदयंगम एवायमप्राकरणिकार्थोपस्थापनप्रतिबन्धकभावः प्रकरणादिज्ञानस्य । यदप्युच्यते प्रकरणादिज्ञानात्प्राकरणिकेऽर्थे तात्पर्यविषयतया निर्णीते तदीयशाब्दबोधानन्तरमतात्पर्यविषयीभूतार्थबोधो जायमानो व्यञ्जनव्यापारसाध्य इति । तत्र किमयं नानार्थस्थले सर्वत्रैव व्यञ्जनोल्लासः, आहोस्त्रिक्वचिदेवेति संमतम् । नाद्यः । प्राकरणिकाप्राकरणिकयोरर्थयोः शाब्दबुद्धौ सर्वत्राभ्युपगम्यमानायां तात्पर्यज्ञानकारणतायाः कल्पनस्य नैरर्थक्यापत्तेः । न च शक्तिजबोधे सा कल्प्यते । व्यक्तिजबोधस्तु तात्पर्यज्ञानं विनापि भवतीति तत्स्थाने शक्तिजबोधवारणाय तत्कल्पनमिति वाच्यम् ।
तदावश्यकत्वमत आह-अपरेति । तदुपस्थितेरपि अपरार्थोपस्थितेरपि । शङ्कतेअत्रैवेति । ननूपायस्योपायान्तरादूषकवात्साप्युचितात आह-अनुभवेति । प्रकरणेति । प्रकरणादीत्यर्थः । अपिना तदज्ञानिसमुच्चयः । अत एव तस्या अनुभवसिद्धलादेव । विपक्षे बाधकमाह-यदि चेति । अनुपस्थितजला इति हेतुगर्भ विशेषणम् । तदुपस्थितेरेवाभावादिति भावः । तत्स्थाने व्यक्तिजबोधस्थाने । तत्कल्पनं तात्पर्यज्ञानकारणताकल्पनम् । कार्यकारणभावानङ्गीकारे नियमभङ्गमाह-अन्यथेति ।