________________
११२
काव्यमाला ।
एवं च प्रागुपदर्शितनानार्थस्थले प्रकरणादिज्ञाना धीनात्तात्पर्यनिर्णयात्प्राकरणिकार्थशाब्दबुद्धौ जातायामतात्पर्यार्थविषयापि शाब्दबुद्धिस्तस्मादेव शब्दाज्जायमाना कस्य व्यापारस्य साध्यतामालम्बताम्, ऋते व्यञ्जनात् । न च शक्तिसाध्या सेति वाच्यम् । तदधीनबोधं प्रति तात्पर्यनिर्णयस्य हेतुत्वात् । व्यक्त्यधीनबोधस्तु नावश्यं तात्पर्यज्ञानमपेक्षते । नन्वेकमात्रगोचरस्मृतेस्तच्छाब्दबुद्धावनपेक्षितत्वे 'विशेषस्मृतिहेतवः' इति प्राचां ग्रन्थः कथं संगच्छते । कथं वा प्रकरणादिज्ञानस्यापरार्थो - पस्थानप्रतिबन्धकत्वविरहे संयोगाद्यैरनेकार्थस्य शब्दस्य वाचकताया नियन्त्रणोक्तिश्चेति चेत्, इत्थम् — स्मृतिशब्दस्य निश्वयपरतया विशेस्मृतिशब्देन विशेषविषयस्तात्पर्यनिर्णयो गृह्यते । संयोगाद्यैर्वाचकताया नियन्त्रणं चैकार्थमात्रविषयकतात्पर्यनिर्णयजननद्वारा शाब्दबुद्ध्यनुकूलत्वम् । अवाच्यार्थोऽतात्पर्यार्थः । एवं च न ग्रन्थासंगतिरित्यपि वदन्ति । अथ प्राकरणिकार्थबोधानन्तरं तादृशपदज्ञानस्योपरमात्कथं व्यक्तिवादिनाप्यर्थान्तरधीः सुपपादेति चेत् । मैवम् । प्रथमार्थप्रतीतेर्व्यापारस्य सत्त्वाददोष इत्येके । अर्थप्रतीतौ शक्यतावच्छेदकस्येव पदस्यापि विशेषणतया भानात्प्राथमिकशक्यार्थबोधस्यैव पदज्ञानत्वादित्यपरे । आवृत्त्या पदज्ञानं सुलभमित्यपि कश्चित् । तदित्थं नानार्थस्थलेऽनुरणनीयं व्यञ्जनं शब्दशक्तिमूलम् । शब्दस्य परिवृत्त्यसहत्वादिति ध्वनिकारानुयायिनो वर्णयन्ति । अन्ये त्वत्र प्रत्यवतिष्ठन्ते । यत्तावदुक्तमेकार्थमात्र विषया पदार्थोपस्थितिस्तदन्वयबो
प्रिमनिषेधद्वये हेतुत्वबोधकः । नावश्यमिति । न नियमेनेत्यर्थः । व्यङ्ग्याने कस्थले त्वपेक्षैवेति भावः । तात्पर्यज्ञानमपेक्षते इति । धर्मिग्राहकमानेन तस्यास्तथैव सिद्धेरिति भावः । इतिरपरमतसमाप्तौ । उक्तिश्चेत्यस्य कथं संगच्छत इत्यत्रानुषङ्गः । इत्यपि वदन्तीति । अपरे इति भावः । तादृशेति । तात्पर्यज्ञानात्मकेत्यर्थः । सत्त्वादिति । तथा च तेन संबन्धेन तत्सत्त्वमिति भावः । पदस्यापीति । 'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥ इति हर्युक्तेरिति भावः । परिवृत्तीति । पर्यायान्तरेण बोधनादिति भावः । अत्र मतद्वये । तत्राद्यमते आह - यत्तावदिति । ननु तात्पर्यज्ञानस्य तत्रैवोपयोग इति