________________
रसगङ्गाधरः।
यथा वा
___ 'चाञ्चल्ययोगिनयनं तव जलजानां श्रियं हरतु ।
विपिनेऽतिचञ्चलानामपि च मृगाणां कथं हरति ॥' अत्र नैवाश्चर्यकारी चाञ्चल्यगुणरहितानां कमलानां चाञ्चल्यगुणाधिकेन तव लोचनेन शोभायास्तिरस्कारः, आश्चर्यकृत्तु हरिणानां तद्गुणयुक्तानां तस्याः स इति वाच्यार्थे पर्यवसन्नेऽपि रूढिनिर्मुक्तकेवलयोगमदिया मूर्खपुत्राणामत एव प्रमत्तानां नेतृभिश्चोराद्यैः श्रियो धनस्य हरणं सुशकम् , न तु गवेषकाणामत एवाप्रमत्तानामिति जलजनयनमृगशब्देभ्यः प्रतीयमानोऽर्थः कथं नाम व्यञ्जनाव्यापार विनोपपादयितुं शक्यते । अत एव पङ्कजादिपदेभ्यः पङ्कजनिकर्तृत्वेन कुमुदाद्युपस्थितिलक्षणयैवेति नैयायिका मन्यन्ते । अत एव च 'ईशानो भूतभव्यस्य स एवाद्य स उ श्वः' इति वेदान्तवाक्ये किमैश्वर्यविशिष्टः कश्चिज्जीवोऽत्र प्रतिपाद्यत उतेश्वर इति संशये जीव एवेति पूर्वपक्षे च 'शब्दादेव प्रमितः' इति सूत्रितमुत्तरमीमांसाकारैर्बादरायणचरणैः ( ब्रह्मसूत्रे १ । ३ । २४ )। तस्मादर्थान्तरमिह न शक्तिवेद्यम् । अपि तु व्यक्तिवेद्यमेव । यथाश्रुतार्थस्यैवोपपत्तेर्बोधाभावेन लक्ष्यमित्यपि न शक्यं वक्तुम् । तात्पर्यार्थबोधस्तु तदर्थ
आह-पुंश्चलीति । आदिना पुरुषत्वरतिवपरिग्रहः । योगरूढस्योदाहरणान्तरमाहयथा वेति । तहणेति । चाञ्चल्यगुणाधिक्येत्यर्थः । तस्याः स इति । शोभायास्तिरस्कार इत्यर्थः । जलजनयनमृगेति । डलयोरैक्याजडजवेन मूर्खपुत्राणामित्यस्य, नयतीति नयनमित्यनेन नेतृलेन चौराद्यैरित्यस्य, मृगयन्तीति मृगा इत्यनेन गवेषकाणामित्यस्य लाभः । 'मृग अन्वेषणे' इत्यदन्ताच्चुरादेः पचायच् । अत एव योगशक्त्या अलाभादेव । एवमग्रेऽपि । ईशान इत्यस्य 'अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः' इत्यादिः । कठवल्लीस्थमिदम् (चतुर्थवल्ली । १३) । अद्य वर्तमानकाले स एवास्ति । श्वो भविष्यत्काले स एव भवितेत्यर्थः । जीव एवेति । अङ्गुष्ठपरिमाणस्य लिङ्गस्य ब्रह्मण्यसंभवादिति भावः । सूत्रितमिति । सिद्धान्तार्थमिति शेषः । स चेस्थम्-परमात्मात्र प्रतिपाद्यः प्रमितः । कुतः । शब्दादेव । ईशानो भूतभव्यस्येत्यत्रेशानशब्दात् । नहि जीवे ईशानशब्द आजसः । लिङ्गश्रुत्योर्विरोधे श्रुतेः प्राबल्यात् । एतत्सूचनार्थमेवैवकारः । अङ्गुष्ठमात्रलं तु अङ्गुष्ठमात्रजीवानुवादेन ब्रह्माभेदप्रतिपादना. दनुपपन्नमिति । ननु शक्त्यवेद्यलेऽप्यन्यत्र लक्षणावेद्यखमेवास्तामत आह-यथेति । तथा च मुख्यार्थबाधरूपलक्षणाबीजाभावान्न सेति भावः । नन्वेवं तथापि कथं निर्वा